Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) >यजुर्वेदसप्तलक्षण (Yajur Veda Saptalakṣaṇa)

यजुर्वेदसप्तलक्षण

१ शमानप्रकरणम्
अथ यजुस्संहितायामाकारप्लुतपूर्वो घोषवद्व्यञ्जनशसकारपरो विसर्जनीयो येषु पदेषु लुप्यते तानि प्रवक्ष्यामि १
अत्रेङ्ग्यपदानां नानापदत्वमसङ्ख्याने । तेषां पूर्वपदमवग्रहः २
ऊष्मविसर्जनीयप्रथमद्वितीयो अघोषाः । न हकारः । व्यञ्जनशेषो घोषवान् । गजडाद्यास्त्रयो वर्णाः दादयश्चैव बादयः । यादि वान्तो हकारश्च शसौ तावन्यसंयुतौ ॥
अघ्निया अयक्ष्मा अग्रा अप्रा असुरा अपृणा अजायथा अश्वा अहृणीयमाना अधा अस्मेरा अनिष्टा अना गृहीता अध्वर्तव्या अकामा अक्लृप्ता अपुष्पा अस्या अनागा एत्यमेध्या अतिरिक्ता अमुष्या अपस्या असपत्ना अवका अजनिष्ठा अहता अवोचथा अन्तमा अतिष्ठिपा अनभ्यक्ता अह्निया बस्तेनाजा अनीका अर्धाः ३
वदन्तीम् सम् यतना अन्याः ४
अरिष्टास्स्यापरः ५
आयुधा आनशाना आताना आरण्या आग्नेया आद्या आसीनाः ६
आदित्याः ७ न वपेत्पूर्वः ८ आशाः ९ न नःपरः १० आतृण्णा दजपरः ११
स्थेषा इरा इष्टा इष्टका इच्छमाना इमा म इयक्षमाणा जोषसेमा इषिता अनपेता स्ता इमाः १२ ईश्वराः १३
उपस्था उस्रिया अखाया उपयामा उक्थ्या उषाः १४ ऊषाः १५ ऋध्या ह्यृता ऋतव्याः १६
एताः १७ एना अनन्तोदात्तः १८ ऐन्द्रा ऐलबृदाः १९ ओजा ओताः २०
यानाऽसितवर्णास्सव्वँथ्सरीणा एता उ हिरण्यवर्णा एतासु २१
कृत्तिका मयुरादयस्त्रयः त्रैंशकद्वितीयदशिन्यः न वा एतेषु २२
न त्वाऽऽर्द्राऽर्यमा सविता चित्रा श्रोणा पूषा २३
अवग्रहोपसर्गौ दिव्यनामपूर्वो देवता २४
संख्यापूर्वश्च धा नित्यम् २५ स्युः स्थ भवन्ति भवन्तु परः बहुधेति वर्जयित्वा २६
कामा स्स्वाहाकृता कल्पमाना कण्ठा कुमारा क्रव्या क्लृप्ता केशा क्षुल्लका क्षाः २७
गर्भा गता गृह्या गणा ग्रहा गृहा ग्रीवा ग्या गन्धर्वा वरुणगृहीता ग्राह्या ग्रहीतव्या गाः २८
न स्वपूर्वः २९ चन्द्रमाश्चक्षाश्चन्द्राश्चेताः ३० छन्दाः ३१
जाता जोषा जुषाणा जनीना जागता ज्येष्ठा जना जायमाना ज्याया जाया ज्ञाता जीवा जाः ३२
नैतस्मादा पञ्चमपरपदाद्यत्र पशवोऽस्ति ३३ मामा स्यात् भवति हि जायते यत् मे ज्योतिःपरश्च ३४
मधुमत्तमास्तेजास्तृप्तास्तण्डुला अनुतप्यमानास्तस्करास्तुषास्तन्वानास्त्वाष्ट्राः ३५
तरा नाकसत्परः ३६ ताः ३७ न जोहवीमि परि सोमस्य वृणे सर्वेवोग्रा स्थ पूर्वः ३८
दुर्या देवा दक्षा दात्रा दा दूता दन्दशूका अवान्तरदिशा देविका ददाना दोहा दन्ता द्विदेवत्या कामदुघा दक्षमात्मन्दधाना म्रक्षासस्ते दिव्या देवताः ३९
न क्षेपिष्ठैतस्य पूर्वः ४० युक्ता गमयेत् गमयति नीयन्ते विभजति ब्राह्मणं परो दक्षिणाः ४१
चन्द्रपूर्वश्च ४२ विधृता धावा धिष्णिया धीरा धाया धाना धुवाना धृष्या वैधिषणा धाः ४३
न श्रद्विपूर्वः ४४ धाराः ४५ नैषापूर्वः ४६ नेत्रा नमस्या नवेदा नवग्वा नभाः ४७
पुरूरवाः पाः प्रीताः पार्याः प्रजाः पुरुषाः पाङ्क्ताः पत्याः पन्थाः पोषाः पुराणाः प्रजाताः प्रावृताः पादाः प्रथाः पूताः देवपुराः पात्राः पुरोडाशाः पवमानाः प्रायणाः पद्याः पृथिव्याः
४८ नैवपूर्वः ४९ इमे अलज एतयोश्च ५० प्रिया मा स्मः परः ५१ पृतना जपरः ५२ फालाः ५३
ब्राह्मणा बाह्याः ५४ भामा भारा भरता भक्षा भूया भूम्या भित्था भद्रा भ्रातृव्या भक्ता भूयिष्ठाः ५५
भागा अनाज्यपूर्वः ५६ तमामन्द्रा मित्रा मनस्यमाना मनुष्या मुखा मना सुमेधा मान्दा मासा मुञ्चमानाश्चमाया मुदा मथ्नाना मिश्रा मेध्या मुष्करा मेघ्या मरुत्वतीया मुख्या निष्परिमिताः ५७
यज्ञा यक्ष्मा यज्ञिया याजा यशा यजमाना युक्ता अयनीयस्य याज्या यतनाः ५८
स्त्रियो वै वः प्रियाः जाताः वो देवाः रुचो दक्षिणा गर्भं न इमा द्वितीया दश देवेषु परो याः ५९
रिहाणा रेता रथा मुञ्चामिरशना रण्वा रक्षमाणा रौद्रा रजता रात्रिया रवा रूपाः ६०
न वशा परः ६१ रुद्रा अनिङ्ग्यान्तः ६२ लिम्पा लोकाः ६३ न पश्चात्पूर्वः ६४
वल्शा विक्था विप्रा वेदा वया वीरा व्राता वसव्या वर्चा वसिष्ठा व्यचा वैश्वानरा वेशा वरत्रा वाता विदाना सव्रता विद्या वैष्णवा वयस्या एकव्रताः ६५
यो हि भुवः परो याज्यासु विश्वाः ६६
शस्त्याः शुद्धाः शुक्राः श्रवाः शुष्काः शर्मण्याः कविशस्ताः श्लोकाः शफाः शुभ्राः श्रेष्ठाः शराः ६७
सर्पाः कृतस्स्योनाः शतसाः सहस्रसाः सोम्याः निषत्ताः सत्यावः स्तेनाः सस्पिञ्जराः सिकताः सीसाः स्थिताः स्यन्दमाना प्लुतसोमाः त्रिषत्याः आहसौम्याः स्थावराः स्परणाः स्तोमाः सृष्टाः स्तुताः सोमपीथाः स्थाः ६८
न प्रतिपूर्वः ६९ स्थिरा अनवपूर्वः ७० अनृक्षु साध्याः ७१ सर्वाः ७२ न वै परः ७३ हिमा होतव्या हाया हायना हारुका होत्राः ७४ न दे परः ७५ हूताः मकारपरः ७६
इति शमानप्रकरणम्

अथ विलङ्घ्यप्रकरणम् २
प्रणम्य भार्गवीं देवीम् सर्वलोकैकमातरम्
नारायणः प्रवक्ष्यामि विलङ्घ्यानि पदान्यहम् १
एकारैकारवर्णौ यौ संहितायां विकारिणौ
तदन्तानि विलङ्घ्यानीत्युच्यन्ते वेदवित्तमैः २
पुरातनेऽतिरिक्तम् यत्त्यक्त्वाऽनुक्तम् समोप्य च
वर्णक्रमेण गृह्यन्ते सव्याख्यान्येव तान्यपि ३
इङ्ग्यम् यत्पदमत्रापि नानापदवदिष्यते
निमित्तत्वेन यद्बाह्यं गृह्यते पदमेव तत् ४
अपिचेत्स्याद्धि नान्यत्तु पूरणेऽत्र विधीयते ५
अग्रेऽवारे यदर्येऽह्वेऽतिथयेऽनिष्टकेऽजरे
अन एवाद्यते साह्न ईरतामवरेऽश्नुते १
अनूच्यतेऽन्तरिक्षेंऽसेऽमृतेऽवदयतेऽदिते
अग्नेऽनिङ्ग्यान्तं अन्येऽर्केऽप्यग्नये त्रैंशके न तु २
अस्मै चाष्ट्या अनार्त्यै चाक्षित्या अश्ञवतै तथा
अवरूढ्या अहिंसाया अस्यै तम् पूर्वमिष्यते ३
अमुष्मै चाप्यरिष्ट्यै स्यादास्ते चाह्वयते तथा
अथानयत इन्द्रायोदेवतत्परमात्मने ४
आज्ये चानश आवर्तेऽप्यावर्तन्ते तथाऽऽसते
आगते चाहुवध्यै स्यादावृत्त्या आरभामहै ५
आप्त्या आसामहै चस्यादिच्छते चेच्छ इध्यते
समिद्धेऽग्नीध इज्यन्ते इन्धे मृद्वमिडे भवेत् ६
इरिणे चेन्धते चेध्र इमे नेति परम् भवेत्
त्रिष्टुगिन्द्रिय इज्यान्ता ईमहे चेशते तथा ७
ईक्षन्ते चेक्षतेऽपि स्यादुक्थ उच्यत उप्यते
उच्यमान उपाके स्यादुच्यान्ता ऊतये तथा ८
ऊहते चर्ध्यते चर्ष एकाम्परमृचे भवेत्
ऋत्या आत्मानमृध्याता ऋध्यै तु न मुखात्परम् ९
एते स्यादेतवै चाथौजस्वते व्योमने तथा
कर्मणे कुरुते कक्षे करणे कतमे भवेत् १०
क्रियन्ते स्वकृते कोशे कालेऽस्याः क्रूर इष्यते
क्रेष्यते क्रयणे काण्डे क्रमते क्रियते तथा ११
कल्पन्ते कुर्वतेऽपि स्यात्कस्मै क्रीणावहै तथा
कृत्यै क्रान्त्यै च क्लृप्त्यै च क्षेमेऽपि क्षीयते तथा १२
खायन्ते स्यादनुख्यात्यै गृह्यन्ते गृह्यते गृहे
बिभर्तुपूर्वं गर्भे स्यात् गृहीते गृणते तथा १३
गर्दभे गेऽपि गृह्यान्ते गुप्त्यै गायत्रियै तथा
गृह्यातै चापि गव्यायै घ्ने तु नैव परं भवेत् १४
चिनुते चर्यतेऽपि स्याच्चर्षणे चीयते तथा
चक्षसे जायते ज्ञाने जनिष्यन्ते च जीवसे १५
यस्मिञ्जाते च जायन्ते जाये त्वाज्योतिषे भवेत्
जायन्तै जीवनस्यायै ज्ञात्यै जायामहै तथा १६
जगत्या एव जायातै जित्यै नेति परं भवेत्
जयामहै च जात्यै च जयातै त्रायते तथा १७
तीर्थे तेजस्वते तस्थे तुर इन्द्राय तेजसे
उत्तमे ते च तिष्ठन्त आह त्रिष्टुभ उत्तरे १८
तिष्ठते चोपपूर्वं स्यात्तस्मै तत्यै तथा भवेत्
तस्या इतोऽपचत्पूर्वं दत्त इन्द्रोदमे ददे १९
देवने च दुहे दध्रे दक्षिणे ददते दृशे
दीक्षते दधते दघ्ने दीक्षन्ते च तथा भवेत् २०
आङ्परं देवतायै च दधाता अपि धर्मणे
धीयन्ते धिष्णियेऽपि स्याद्धीयते धत्त इष्यते २१
धृत्यै नाके च नीयन्ते निष्कासे नुदते नये
नप्त्रे नत्यै पुनीते च पवते पावके तथा २२
प्यायते पवसे पोषे वैपूर्णे पाꣳसुरे पते
पक्षे पन्नेऽग्नये पूष्णे पारे पूर्वे तु नोत्परम् २३
पदे त्विति परं पत्य उपायुः परमिष्यते
पुष्यसे पतयेऽपीति परं स्यादिति पत्नियै २४
नमः पृथिव्यै प्रत्यै धाब्रह्मणे बाधते तथा
भ्राजस्वते द्विभागे च भूमने भ्रंशते भगे २५
भुञ्जते चायुषो भुङ्क्ते भियै भूत्यै तथा भवेत्
भुनजाध्वै मुखे मध्ये मार्जयन्ते मरुत्वते २६
माध्यन्दिने च क्षत्राय महते मथिते मदे
पूर्णमासे महिम्ने मेऽदिते दायि महे मृते २७
मन्यवे मुञ्चते मंस्ये मिमीतेऽपि मनामहे
मनुते म्रियते मेधे मन्यन्ते मध्यमे मुचे २८
मेष्यै च मत्यै मुक्त्यै स्याद्यजते यजने तथा
योगे तु यज्ञं योगेऽग्निम् पूर्वं स्याच्च यजामहे २९
युत्वते यजमाने स्यादायुरेवाशिषः परम्
एतम् यज्ञस्य पूर्वं चेत् नेष्यतेऽवयजे भवेत् ३०
एकाजग्मेममारण्या एवं विद्वांस इन्दवः
एषां पशव उद्यन्तः एतावन्तः परं च ये ३१
परो नव उशन्तो ये वाजिनं समिधस्सुवः
भक्ष सा तेभ्य एतेषु विनोदेवं परेण तु ३२
यज्ञे चोल्बणमेवोप ह्वयध्वं परमिष्यते
नैभ्यः पूर्वं भवेद्यत्ते यूथे यूपे च युज्यते ३३
युज्यन्ते यतने यक्ष्ये युङ्क्ते युक्त ऋतायते
यस्मै च यत्यै यज्यायै युक्त्यै रमयते रभे ३४
रोचते रिच्यते रुन्धे रिक्त एवपरं भवेत्
रुन्धते रुरुचे राष्ट्रे रोचन्ते रभते तथा ३५
रणे यमाय राज्ञे स्यादपि रꣵह्यै रभावहै
अनारण्याःपरं रुध्यै लभ्यन्ते लभते तथा ३६
लोके च नायं गो गोवै पूर्वं लप्स्यामहे व्रते
विदे वयस्वते विश्वे वर्चसे चाङ्परं वरे ३७
विन्दते वर्षवर्णे च वीतये च वृणीमहे
वस्ते वारयते वृङ्क्ते वृणीते वृक्ष आयुधम् ३८
वते स्यादिन्द्रियादित्यानीकपूर्वं च विष्णवे
निवाते वायवे वादे वस्यसे वर्क्ष्यते तथा ३९
वाक्ये वथ्सर आग्नेयमेकामेवपरं भवेत्
नत्वेवास्मै परं चेत्स्याद्वपन्ते वज्र एव च ४०
व्याधिनेऽसद्वशे चापि वृणै वृत्त्यै वृणामहै
वृणावहै विशै वै च वृष्ट्या एव परं भवेत् ४१
श्रेयसे शुचये शास्ते श्रीणीषे शस्यते तथा
शोचिषे स्यादनिङ्ग्यान्तं श्रैष्ठ्येपि श्रयते तथा ४२
श्रपयन्ते शये नीचम् शान्त्यै श्रुत्यै च शातयै
शुद्ध्यै षोडशिने स्योने स्तृणुते सृजते समे ४३
इङ्ग्यान्तं स्थे न याज्यासु स्वे च नेति परं सने
सर्वे सन्त्वासते पूर्वं स्पष्टे चेति परं सवे ४४
सङ्गिने च सहस्रे च सातये स्तुभ एव च
सूनवे सवने स्तोमेऽथो पूर्वं स्वस्तये तथा ४५
सृजन्ते च सवित्रे च पवमाने स्तुते भवेत्
सोमे त्वहीने पूर्वं स्यात् स्थित्यै सिञ्चामहै तथा ४६
सस्यायै च सिनीवाल्यै सूत्यै स्तृत्यै भवेदपि
सृष्ट्यै समृद्ध्यै हूयन्ते हूते नेतिपरं हुवे ४७
भवत्याहवनीये च हुते होत्रे हवामहे
हते हस्ते तु नेङ्ग्यान्तं हरन्ते ह्वयते ह्नुते ४८
हीयते हूयते हत्यै हन्तवै च हरामहै
ह्वयामहै हरै हित्यै नैभ्यस्सन्त्यधिकानि तु ४९
इति विलङ्घ्यप्रकरणं समाप्तम् २

अथ नपरप्रकरणम् ३
नत्वा नारायणं देवं सर्वसम्पत्करं परम्
शौरिसूनुः प्रवक्ष्यामि नवं नवपरं परम् १
दुर्ज्ञानं दुष्पठं यत्तु सापेक्षञ्चाक्रमन्तथा
तत्परित्यज्य सव्याख्यम् अकारादि च पुष्कलम् २
नारम्भणीयमेतच्च स्वत एव व्यवस्थितेः
प्रसिद्धाध्ययनात्तत्र केचित्सन्दिहते क्वचित् ३
कुतोऽवसीयते कैश्चित् निपुणैश्च महात्मभिः
निश्चितं स्वानुरूपेण लक्षणेनावसीयते ४
चादौ विकारी नो ने तः पदान्तो विषयोऽस्य सः
अभिधेयौ च तावेव तज्ज्ञानं च प्रयोजनम् ५
चछजेषु तवर्गीये थकारेण विवर्जिते
चतुष्टये मकारे च लकारे च परे स्थिते ६
विकारी नः पदान्तो यः तकारो नपरश्च यः
दृश्यते येषु तौ ज्ञातुं प्रवक्ष्यामि पदान्यहम् ७
नानापदत्वमिङ्ग्यान्तमिष्यते चात्र लक्षणे
ह्रस्वोपधमनिङ्ग्यम् यत् तपरन्नीचमेव तत् ८
नागमञ्च शकेयञ्चाप्यचारिषमथाशकम्
श्रयध्वमेनमित्येतत्पदषट्कम् विधीयते ९
नकारान्तं पदं पूर्वम् अकारादि क्रमेण तु
तकारान्तं ततोऽनेन क्रमेणैव च गृह्यते १०
इति परिभाषा
अमुष्मिन्नब्रुवन्नस्मिन्ननड्वानसुरानपि
अकुर्वन्नवसन्नक्रन्ननयन्नदुहंस्तथा १
अधुक्षन्निदयन्नश्मन्नक्रीणन्नविशन्नपि
अवाजिगाꣳसन्नवायन्नभूवन्नभरन्नपि २
अनानशिक्षन्नवदन्नहेडन्नभवन्नपि
अगन्नजातानक्रामन्नचिन्वन्नदृशंस्तथा ३
अवेशयन्नगायंश्चाप्यविन्दन्परिगृह्यते
अदभ्नुवन्नगृह्वंश्चाप्यजानन्नजयन्नपि ४
मपरं नाप्यथापश्यञ्जपरम्प्रतिषिध्यते
अस्मान्नह्येवपूर्वं स्यादायुष्मान्नार्ध्नुवन्नपि ५
आसन्नात्मन्नथाश्वत्थानादित्यानप्यथो भवेत्
आरण्यानप्यथायन्थ्स्यादासीरन्नाचिकीर्षन्न् ६
इमाल्लँपरमीडेन्यानूषानेष्यन्नपीष्यते
एतस्मिन्नेव चैनान्त्रिर्देवलोकेनुदे परे ७
एताञ्जमपरञ्चैवमैरयन्नोमनित्यथ
कपालान्क्रयणान्कल्पान्गरुत्मांश्च गृहान्गणान् ८
गृह्णन्वलगान्घृणीवाञ्चक्षुष्मांश्चकृवांस्तथा
चर्मञ्ज्मञ्जग्मिवाञ्जानञ्जनयञ्जन्मन्त्मन्नपि ९
त्यान्तिष्ठेरन्तुविष्मान्त्रीन्तिष्ठन्तूर्वन्तपन्नपि
तस्मिन्निति पदञ्चात्र लक्षणे स्फुटमिष्यते १०
छन्दो देवांश्च मे देवा द्वाभ्यां दक्षिणतो न निः
तानित्येषु परेष्वेवाचिकीर्षन्तान्तु वर्जयेत् ११
देवान्दन्द्यूंश्च दीक्षेरन्भागधान्धारयन्नपि
धन्वन्धीन्सोमपान्पत्मन्पश्यन्पुण्यांश्च पार्थिवान् १२
पापीयांश्च प्रघासांश्च पुरोडाशान्पशून्पितॄन्
ब्रह्मान्भद्रांश्च भान्भासन्भृज्वान्भूयानिहोच्यते १३
भ्रातृव्यांश्च मनस्वांश्च मण्डूकांश्च महानपि
मुञ्चन्म्रोचन्मलिम्लूंश्च मारुतान्मधुमानपि १४
मनुष्यानपि यस्मिंश्च युच्छन्नपि पदेनयन्न्
परायन्नपरोयांश्च राजन्दिव इतीरितम् १५
रुद्राल्लोँकान्विदन्पन्थिनः पूर्वं वन्वरानपि
वर्ष्मन्विद्वान्वसून्वारान्वीरान्मा वारुणानपि १६
वानिङ्ग्यान्तञ्च विश्वांश्च देवान्परमितीरितम्
शत्रूञ्छर्मछ्रुश्रुवांश्च शीर्षन्दपरमिष्यते १७
सामन्थ्सुब्धान्थ्सरस्वांश्च निषीदन्थ्सूर्य एष सन्न्
सन्निस्सञ्जायसे स्फूर्जन्थ्सर्वान्थ्सर्पांश्च निश्चितम् १८
स्तेगान्थ्सहीयान्हविष्मान्होमानिति नपद्धतिः १८-२
इति नपरप्रक्रणम ३्

अथ तपर प्रकरणम् ४
अद्यादतृणदश्नीयादब्रवीदजुषत्ततः
अस्थादस्मदसच्चैवमनन्न्यजनदर्पयेत् १
अस्मादवसृजेदक्रमीदवस्ताच्च गण्यते
अभवच्चावरोहेच्चानमदासीदिदुच्यते २
इयादुदुपरिष्टाच्च नैः परन्त्वेनदिष्यते
स्वाहैकाच्चैवमेकस्मात् इकारान्ते परत्र तु ३
पद एतच्च कुर्याच्च क्रामेत्कनिक्रदत्ख्षयात्
गृह्णीयाद्गमयेच्चिच्च जुहुयात्तावदीरितम् ४
त्यत्तस्मात्तदितिप्रोक्तम् न नैर्निर्नोपनप्रति
नेमिन्नानुनविस्रंसयेन्नयैषु परेषु तु ५
अकुर्वततदित्यत्र प्रतिषेधो न चेष्यते
दिद्युद्दरिद्रद्दध्याच्च धेयान्नशदिहेरितम् ६
पात्रात्परस्तात्पुरस्तात्पद्ब्रूयाद्बृहदेव च
भद्राद्भूयाच्च मध्यान्मन्मिथुनाद्योषदिष्यते ७
यावद्यज्ञाच्चयत्प्रोक्तम् एवन्दृश्येत वर्जयेत्
वपाम्यादृꣳहणा भागः पूर्वँल्लोकाद्वपेद्वदेत् ८
वृत्राद्वैश्वानराद्वृच्च व्रश्चनाद्वद्विदुच्यते
इवसत्सवनात्सीदत्स्याद्धिंसीद्धिणुयात्तथा ९
हविष्मन्निधनं पूर्वं हविष्कृन्निधनं तथा
हन्याद्दृन्नपरं तान्तं पदमेवं प्रकीर्तितम् १०
न तान्त पदमालेयं नवरत्नोत्तराक्षरा
सुगुणा वेदविदुषां रचिता कण्ठभूषणम् ११
इति तपर प्रकरणम् ४

अथ अवर्णिप्रकरणम् ५
अवर्णिन्यनुक्तं समोप्यातिरक्तं परित्यज्य दुष्कीर्तितञ्चाभिवीक्ष्य
ककारादि वर्णक्रमेणाहमेतां सुवृत्तिं करिष्यामि विस्पष्टवाच्याम् १
ओदेदवर्णसंछन्नम् संहितायां पदादिगम्
अवर्णं ज्ञातुमस्माभिः इदं शास्त्रं प्रणीयते २
नोदात्तो यः पदाध्याय उदात्तस्संहितागमे
यश्चोदात्तः पदाध्याये स्वरितस्संहितागमे ३
अघोषाक्षरतः पूर्वः ओकारस्सांहितश्च यः
तेभ्यः परः पदाध्याये त्वकारस्स्यात्पदादिगः ४
संयोगादिगतो रेफो यश्छकारपरो न तु
संयोगाद्युत्तमो यश्च पदस्थस्स्वरितो न तु
यश्चानुस्वार एतेभ्योऽकारः पूर्वः पदादिगः ५
अष्टासुराक्षराग्न्यग्र मध्योदात्ताश्विनश्श्रुतिः
अरण्यारुणशब्दौ च न स्वारान्तोऽदितिश्रुतिः ६
अश्वशब्दो न विच्छ्वोन्तोऽमृतशब्दो न यान्तकः ७
कृन्ततेनाचपूर्वस्तु तत्राकारो न विद्यते
अध्वर्युशब्दश्चेत्येते श्रुत्यैवाकारपूर्वकाः ८
यद्यद्दत्वत इत्यत्र परपक्षगतं पदम्
तत्तत्सर्वमकारादि जननायेति वर्जयेत् ९
उपसर्गेङ्ग्यपूर्वोऽकरक्तमक्रानकुर्वत
अकूपारस्य चाकुर्वन्नकर्णा उत्तरं तथा १०
अकामयन्ताक्रमिषमकामयत चाकरम्
अकृष्टपच्यं पाश्चात्यं अक्रंस्ताक्षन्नथाक्ष्णया ११
अक्षीभ्यामगुरागाश्चाप्यगाच्च न परापरम्
अगन्तागच्छदगममगृहीता अगन्म च १२
अगृह्णादगथा अघ्नन्नगच्छन्नप्यघारयत्
अघावग्रहवर्ति स्यात् अचरच्चाच्छिनत्तथा १३
अच्छिद्यमानयाजोऽजन्यजक्षीरे भवेदजेत्
अजायन्ताप्यजातश्च नोदात्तान्तोऽजिहीत च १४
तोऽजायामजयन्ताजाप्यजस्रोऽपि तथाऽजयन्न्
न युधापदपूर्वञ्चेत् अणिष्ठा अत्रिमत्यपि १५
अत्रातिष्ठदतीकाशादत्रीरद्भ्योऽद्भिरप्यथो
अथाददाददधत तथादब्धाप्यदन्तकः १६
अदादददतादाभ्यमद्यादृꣳहन्नदत्ततत्
अदस्यन्नध्वनोदायोदधुरध्रियतादुहत् १७
अदित्सन्ताप्यध्यधममधिताधादधा इति
आ रेतोऽधत्त मेऽधायि त्वधस्तादप्यनुष्ठुया १८
क्रन्दनोऽनिमिषोऽनाप्तमनमित्रमनक्ति च
अनक्तु च तथा प्रोक्तमनशन्यपि कीर्तितम् १९
अनीकेनानायतना अनड्वाहोनयानृतम्
अनु नोदात्तमन्वक्चाप्यनोवाहौ तथानयोः २०
अनवावग्रहोऽनड्वाननिर्दिष्टाऽनपाऽपथात्
अपिबच्चापतन्नप्राः अन्तोदात्तमपस्तथा २१
अपोनप्त्रीयमप्राप्य चाप्स्वपूपमपाप्यपाम्
अपश्यदपराभ्याञ्चापश्यन्नप्रथतापसा २२
अपरापतदप्रीणीताबाधन्ताबिभेदपि
अब्रवीच्चाबिभरुश्चाप्यब्रुवन्नभवन्नभि २३
अभिप्रयाय्यभागानि त्वभूवन्नपरापरम्
अभरन्नभरच्चाभूदभिमात्यभितोऽभवत् २४
अभावयन्नभूवंश्चाप्यभ्रिश्च अशिक्षन्तद॑शक्नुवनामुममीव च
अमूममन्यतामुष्मिन्नमित्रानप्यमूस्तथा २५
अमुह्यन्नप्यमुष्माच्चामुष्यां चामात्यइत्यपि
अमन्यन्ताप्यमुष्मै चामेध्यावग्रहवर्त्यमा २६
अयाशयाप्ययःस्थूणावयजन्तायनाय च
अयन्नोदात्तं मेऽयक्ष्ममयाजयदयाम च २७
व्योयुक्तोऽयानि न स्वारान्तोऽयानामयुताय च
अयातयामाह्ययातयाम्नियायाडयस्मयम् २८
अयत्ययमयज्ञो वा अतिभूमिरिति त्रिषु
निष्क्रीतो जायते शास्ते प्रजाभ्यो नस्तमस्त्वया २९
हूतो राज्ञो जर्हृषाणो राजाविन्नश्च मा मुचे
गच्छते चिनुते स्वाहेत्येतेभ्यः परमप्ययम् ३०
तस्मात्परं कामयेत द्विष्यादिति च नत्वयम्
अरोऽरथेभ्यः प्रथममरातीयत्यरानरिम् ३१
अरिष्यत्यररुश्चाराध्यरुहं चाप्यरेणवः
तथारमतचारोहन्नरथा अप्यलोमका ३२
अलभन्त तथालं चालभताप्यवमावतु
अवन्तु चाववृत्रंश्च दावन्द्रासोऽवृकास्तथा ३३
अविद्वान्मेऽवधीश्चाविमुच्यमानोऽप्यवोचथाः
अवहश्चाप्यवट्याभ्योऽविन्दतावृणतावृहत् ३४
अवतेन्द्रोऽवृणीतावाप्यवर्तिमवरैरपि
अवस्युरवसेनावाङवत्यप्यपरापरम् ३५
अजावयस्त्ववार्येभ्योऽप्यवटेष्ववरेतताः
अवृञ्जतावदच्चाविमवमोवर्ततावसत् ३६
अवर्ष्याभ्यश्च पाश्चात्यमवारेऽविरवाकया
अविध्यदव्यथमानावृकेभिरविता तथा ३७
अवत्तरमशीयाश्रिरशीत्यै चाशयत्तथा
अशीताप्यष्ट्वषाढाश्चाष्ठीवदस्यसृजत्तथा ३८
असन्नोदात्तमसददसितोऽसिचदासदः
अस्कान् सहासनोदस्मिन्नस्यस्वासादयन्नसौ ३९
अस्यन्त्यस्तुवतास्थेङ्ग्येऽस्थन्नस्मे चास्तमस्ति च
अस्मै चास्थान्यसीदच्चास्मानस्यां निहतो न तु ४०
अस्याऽहिरहभूनोऽहन्नहुतादोऽहरन्नहः
अहरच्चाहरन्ताहारहार्षम् चाहुतादहम्
अहास्था अहरताञ्चेत्युक्तो ह्रस्वस्य संग्रहः ४१
इति अवर्णिप्रकरणम् ५

अथ आवर्णि प्रकरणम् ६
आग्नीध्राग्रयणाज्योपावर्ताप्नोत्यायुधश्रुतिः
आशीराहवनीयाग्नेयाग्नामुष्यायणश्रुतिः १
आत्मशब्दो नोरसादिरायुश्शब्दो नघात्परः
अन्तोदात्तो निहतो वाप्यादित्यश्रुतिरिष्यते २
आश्विनारण्यशब्दौ चाप्यन्तोदात्तश्रुतौ श्रुतिः
आहुत्यायतनयोश्च शब्दौ नापूर्वकौ न तु ३
उपाकुर्यादपोपादि चाकरोत्याकृताय च
इष्टिष्वाकाल आकूत्या कुर्वन्नाकूतिराकृतम् ४
आक्रन्दयत आक्रम्या तथाऽऽक्रमणमित्यपि
आकूताय तथाऽऽकृत्या कूतमाखर आगमन्न् ५
आग्निमारुतआगश्चोपागुरागामथेङ्ग्यगम्
उपागह्यागमिष्ठाश्चागच्छेदाघारमप्यथ ६
सोच्चमाघारयेदिङ्ग्य आचितञ्चाजिमप्यथ
आञ्जीताण्डाभ्यामातञ्च्यादातिथ्यं चातपत्यथ ७
आतप्स्यतेप्यातपते प्यातपायातताविने
आतङ्क्येनाप्यातपतश्चातप्यायात्त आदिति ८
आदायादिष्टमाद्याद्यास्तथादहनमित्यपि
आदानाश्चाधिमाधीतमाधिपत्यन्तथाधयः ९
आधानं चाप्यान्त्यायन आनुजावर इत्यपि
आनृचुश्चानुष्टुभवाक्तथाचापमथाप्स्यथ १०
आप्त्यै आप्त्वा तथाचाप्ताप्यापस्वारान्त एव च
पश्यतापश्चापयितापलायिताय चोत्तरम् ११
यजुषा प्राप्तुमाभ्यश्चाभिराभ्याम् नत्ववग्रहात्
आम्बानामामनं च स्यादाममच्चामयाविनः १२
आमिक्षयामयत्यायुमुपायन्त्यायतीं तथा
आयवस्तघपूर्वो नस्यादुपायंस्तथा भवेत् १३
सिताय सूर्यः पृथिव्या इत्येतेषु न चायते
आयासायायतयायो आर्तीयेतामथार्तवः १४
आरभ्यार्द्रस्यारमार्ध्यन्तार्द्रार्तिम् चार्तवेषु च
आर्ध्नोदारभ्यते चारेप्यार्त्यारमणमार्पयत् १५
आरादालाद्यायालब्धायालब्धं चन नापरम्
आलभेताप्यालभतेप्येतौ सौदात्तकौ तथा १६
आव्रश्चनात्तथावीतन्नाविराविद्धमित्यपि
आवन्नावग्रहादाव्यं पूर्वावल्वगत आवृतः १७
आवापस्य तथावृत्त्या आविब्वेशाप्युदात्तवान्
आववर्ति तथाव्याध आविष्टितमथाशिरम् १८
आश्ञादाश्राव्यमाश्रेषा आशितिम्ने तथाशच
आशानामाशुमाश्यं चाश्रावयेदप्युदात्तवान् १९
तथाचाशुरथाय स्यादासन्नास्तामथास्महे
आसीतास्ते तथासाते त्वासीनश्चासुरस्तथा २०
त्वापरन्नासते थास्यादासिष्यत इति त्रयम्
आसीदासामहै चापि त्वासामास्येन चासुरम् २१
आसादयति चोदात्तवानासन्नाय चाप्यथ
आस्थातास्ताव आहावमाहृत्याहवनस्तथा २२
अल्पेनाद्याहरन्ति स्यादाहनन्याय चाहलम्
ऋतुनास्मोपहत्य प्रपराश्राव्यानुवाक्यया
आहैतत्पूर्वमाहुश्चेत्येषावर्णी सुनिर्मिता २३
इति आवर्णि प्रकरणम् ६

अथ अनिङ्ग्य प्रकरणम् ७
मुनिमानसमन्थानमथितागमसागरात्
उदिताय नमो भूयादमृताय मुरारये १
गुणत्रय विहीनाय जगत्त्रयविधायिने
श्रुतित्रयदृशे शश्वत्पुरत्रयमथे नमः २
नमस्कृत्य विनेतारम् विघ्नानामनुशिष्यते
अनिङ्ग्यमिङ्ग्यसादृश्याद्यत्सन्देहास्पदम् पदम् ३
श्रुतिश्रुच्छब्दनिर्दिष्टम् विकृतं चापदात्मकैः
स्यादनन्यवदन्काराद्यकारादि च यत्पदम् ४
भिर्भ्याम्भ्यस्सुभिरर्वागोभावं ह्रस्वभागदीर्घं च
नित्यं विहाय नेङ्ग्यं गोगीस्सुरदुन्दु चेति भिश्श्रुत्या ५
अर्वाक्सर्वं षुणा तद्वत्स्यादिस्माद्यक्षरैरवि
वैकारादि पदम् वैष्णा वैश्वायुक्सासहादि च ६
सौकारादि सपर्यादि नीयवीयामयादि च
त्रैकारादि कुकारादि नसोगोपोयुतम् विना ७
अरात्यादि च वावादि जशब्दायुक् प्रथादि च
धूर्वातिष्ठादिकम् पष्ठौ तुर्यौ दित्यौ व्यथादि च ८
ईदुपाद्यक्षरन्तच्चेदेकव्यञ्जनमध्यगम्
मेघशीकादिशब्दौ च वर्जयित्वा द्वितीयकौ ९
मामादि चैकतायादि त्रिकमीदृङ्ङिति त्रयम्
प्रत्नथादि चतुष्कं चेदृशायादि चतुश्श्रुतिः १०
रुद्रेषु च द्वितीयादिष्वष्टस्वनुपसर्गयुक्
भवे मते कराय न्ये तीक्ष्णगो पूर्व वास्त्वयुक् ११
अपञ्चषाक्षरश्शब्दः निषासूसस्सहादयः
नीप्यायुधाशवासीनावट्यावार्यादि शब्दवत् १२
ईङ्कारादावीमवापोपसन्न्युद्विप्रायुग्या सा श्रुतिः प्रोथते च
ऊर्ध्वे पक्षे दत्वतादावदादिर्हित्वाऽरेतस्काय चाप्राणते च १३
एकाक्षराद्यदित्पूर्वं मानमाणश्रुदन्तकम्
बहिश्शतोपसर्गयुक् विना सात्मानमित्यपि १४
शृतन्दशपुरोदक्षस्वगात्वदुपसर्गयुक्
विहाय तारशब्दान्तं तथान्तव्यश्रुदन्तकम् १५
सुप्रायुग्वांसशब्दान्तमसुयुक्ची श्रुदन्तकम्
घृतान्ताविष्ठयन्तान्तशब्दावनुपसर्गकौ १६
निस्संव्युक्थेर्मवीरासः पूर्णायुक् त्रिचतुस्स्वरम्
एतैकाद्यपि वाऽसोन्तम् तथायांसश्रुदन्तकम् १७
स्तान्मस्यन्तम् स्वतस्वन्तष्मतष्मन्तश्रुदन्तकम्
त्वतत्वन्तष्यतष्यन्त श्रुदन्तं नोपसर्गयुक् १८
तवै तवे महै महे महिध्वमन्तकं तथा
उकश्रुदन्तकं यदप्यभावुकोपसर्गयुक् १९
प्राङ्वागयुगगागङ्ङाङन्तम् चेन्नचतुस्स्वरम्
त्वान् षाडन्तम्सषोपेत वीवद्वान्मान्मदन्तकम् २०
चीनाञ्चाञ्चस्विनान्तश्रुत्त्वान्तम्मह्यभियुग्विना
अपि द्वादिश्च संख्याश्रुद्विहाय परनिप्रयुक् २१
अग्रे भागा भगश्रुद्गिरिहरिसमनीकोर्जभद्राद्रिवृत्रा
ऽऽवर्तिन्नाशाशुरफ्शिन्नुदसधसहसा धूस्स्वधातानरूप
देवत्वन्दानवोवाडुरुपुरुमहसो वाजिनी वाजविश्व
श्रुज्जातश्रुद्वसावस्वृतघृतशतगात्वग्निमित्र त्रिलोक २२
पते मते शुचिशिपिसत्यचक्षणाक्षपीतयो रयिरिशचंद्रचारिणि
भवो दुघेऽध्वरमघयज्ञवाहनप्रणीतयो हुततमतिग्मनिप्रनिः २३
एभिर्युक्तं ह्रस्वभाग्युग्बहुस्वर्योदूदन्तं देवताद्वन्द्वकं च
हित्वा सर्वं नीचमन्यस्वरं चेन्नीचन्तच्चाप्येवमेवोहनीयम् २४
इति परिभाषा
अथानमित्रान्यतराम्बरीष श्रुतोऽवधिष्माश्वतरोऽनवद्यम्
अवाकयाङ्काङ्कमसूषुदन्तावयातवीयानवतादवध्यम् १
अपस्पृधेथामपथागृहीतश्रुदभ्यसेतामरपा अरेपाः
अपिप्रयं चाप्सरसश्रुदस्यस्यपस्युवोऽनुल्बणमस्रवन्तीम् २
अवत्तशब्दोऽपशवोऽपशव्यश्रुदश्वकोऽदिद्युतदप्नवानः
अपद्यमानान्तरतोऽपवित्रावपारमन्वीपमपेशसे च ३
अनुष्ठुयाऽनिष्टृतोऽनिष्टकेऽभिष्टीरभिष्टयेऽभीरवोऽभीपतोऽभित्यै
अनेनसाऽनेहसानागसावर्तिश्रुतोऽरपोऽरेपसावन्यथाङ्गुष्ठं ४
अलजोऽतीकाशाच्छावाक श्रुदवोचामाजुष्टानिष्टाः
अहभूनोऽवाशृङ्गोऽनाश्वानददृꣳहन्तानड्वाहश्रुत् ५
अजगरशब्दोऽवद्यादरमतिरपुवायतेऽपुवायेत
अपशुरकूपारस्यानाशीर्केणान्यकेषाञ्च ६
अरेषतावरावटश्रुतावपूपमंकुपम्
अरेणवोऽवकावृकावसापसश्रुतोऽगदम् ७
अहिंसन्तमसुन्वन्तमदित्सन्तमयाचितम्
अनवारमनर्वाणं अथर्वाणोऽतिथिश्रुतिः ८
अध्वर्यन्तोऽन्तमायक्ष्मायस्मयामीवशब्दवत्
अध्वर्युश्रुदभीकेतोध्यक्षिताङ्घारिशब्दवत् ९
अजरेभिरनीजानमवमा चावमोऽवमम्
अच्छलाभिरभीशूनामश्ञुवीताशमन्त च १०
अपीच्योऽस्रीविरन्यासाम् अनशन्यपरीषु च
अवारेऽप्रवतावातोऽविताश्रुदणवोऽधमम् ११
आत्मा मुष्यायणार्षेया मिक्षा ग्नेया युषश्श्रुतिः
आमाण्डा जिश्श्रुदाट्णार आरण्या दित्य शब्दवत् १२
आप्ता जीगर्ति मार्तश्श्रुद्विनार्तोरार्तवश्रुतिः
आप्यानामाश्विनाश्वत्थ श्रुतावास्पात्रमाप्स्यथ १३
आविथाथर्वणश्चाख आखुरातित्थ्यशब्दवत्
आविन्नावश्रुदाशूनाम् आशाद्याज्यात्तशब्दवत् १४
आव्यमान्त्यायनश्चायन्ननन्तोदात्तमासनि
आसन्यादानशानाश्चाशितिम्ने चाश्यमाशुया १५
आम्बानामाहुवध्यै चासामहै चाभुराक्षिषुः
आङ्गिरस्यान्तरिक्षश्चाशुषाणा आशुशुक्षणिः १६
आनृहुरानृचुरापयितायोरायिनमायव आयवसे च
आशित आशिरमासुर मारादानशुराग्रयणश्रुतिराच्छत् १७
आसन्द्येवादकामाविराग्नेन्द्रा इन्द्रियाव्यपि
इष्टर्ग इष्टकेलान्दश्रुदिदावथ्सरेण च १८
ईहेन्यश्रुदुदर्येणोदरोपस्त्युशिजश्रुतिः
उदारश्चोर्वरामुथ्समुदीचश्चोष्णिहाश्रुतिः १९
उपहत्नुमुपानहावुपाकेऽप्युपरिष्टादुपरेण चोत्तरेद्युः
उभयाददुदङ्क उद्रिणञ्चोभयतश्चोदकमुद्यतेऽनुदात्तम् २०
उदितमुषासानक्तोलूखलमुच्चावचानुदावर्तः
उदित उदुम्बरशब्दोऽप्यूष्मण्योर्णायुमूर्मिणीऋणधत् २१
ऋक्वतर्दूदरेणर्तुस्थायज्ञायज्ञियेन च
ऋत्वियादृक्षमश्रुत् स्यादृग्मियाण्यृत्विजश्रुतिः २२
ऋध्नवच्चैतशैतावदेतद्वेकादशश्रुतिः
ऐलबृदा ओजसीनौशिज औदुम्बरश्रुतिः २३
ककुहकनिक्रदशब्दौ कृदरङ्किकिदीवि काद्रवेय श्रुत्
ककुभिकरम्भ कपिञ्जलकर्मण्य श्रुत्कनानकाभ्यां च २४
कालका कलविङ्कश्च कार्ष्मर्यः कतमश्रुतिः
कसर्णीरः करिक्रच्च कत्कटः कर्वराणि च २५
कृत्वाय कृकवाकुश्च क्षुमन्तश्च क्षमाचराः
गोपं गोपौ तु गौपत्यं गायत्री गर्दभ श्रुतिः २६
गोलत्तिका गवीन्यौ गव्यूतिश्रुद्गविष्ठिरो गर्मुत्
गोपीथाय गमध्ये गोधूमा गोतमाश्च गिर्वणसे २७
गृह्येयाताम् ग्रुमुष्टिश्रुद्गोधा गोत्राणि गार्मुतम्
गर्गराणां गरुत्मांश्च घृणीवांश्च घनाघनः २८
चक्रवाकश्चिकितुषे चक्राणश्चैत्रियायणः
चिकित्नू चेकितानश्रुच्चुपुणीका चनोहितः २९
चराचरेभ्यश्चात्वाल चरित्र चरम श्रुतिः
चकृवान् जर्हृषाणश्च जर्भुराणा च जम्भयोः ३०
जनता जीवातु श्रुज्जमदग्निर्जामदग्नियौ जहका
जनिता जीमूतश्रुज्जनिमा जञ्जभ्यते जरित्रे च ३१
जुहुराणं जुजुषाणा ज्येष्ठ जरायु श्रुतौ जनित्रं च
जाम्बीलेन जनित्वैर्जायेन्यस्यापि जीवनस्यायै ३२
तत्त्वाय तावत श्रुत्तादृक् त्वष्टीमती तुविष्मणसम्
त्रेधा च तेतिजानस्ततृषाणस्तारकाश्च तनयित्नोः ३३
तुरण्यतस्तुरीप श्रुत् त्रसदस्युस्तमस्वरीः
तूपरत्वोतशब्दौ च त्रिष्टुभश्रुत्तरित्रतः ३४
दिद्युद्दुहितरशब्दः द्रविणस्युर्दृशीकवः
दूषीकाभिश्च देवाच्या दात्यौहश्च दविद्युतत् ३५
दर्विदा देविका देवताशब्दवत् द्राघुया दीधितिं दिदिविं दीदिवान्
द्वापरो दुष्टरन्दुष्टरीतुर्दृषद्द्युम्नदुर्यश्रुतिः दन्दशूकाश्रुतिः ३६
द्युतानो दधीचो दरिद्द्रद्द्वितीयश्रुतिर्धाणिका च ध्रजीमाꣳश्च धेष्ठा
नराशꣳसशब्दो नवेदा नवग्वा नपात्को नपातंच नक्षत्रशब्दः ३७
नक्तोषासा नक्तया नव्यसेश्रुन्नाराशꣳसश्रुन्निदो नन्नमीति
नैयग्रोधो नानदन्नीत नृम्णश्रुन्नीवारा नाथितश्रुन्नभन्ताम् ३८
नीहारश्रुन्नहना नन्दथुना नीक्षणञ्च नीलङ्गोः
नीनिमनूतनशब्दौ नैवारश्रुन्निलायत न्यङ्कुः ३९
निष्कावं निष्कासे निष्केवल्यं निषङ्गथिर्नीविः
निष्टर्क्यं निष्ट्याय न्यग्रोधश्रुन्नरन्धिषश्रुच्च ४०
पृत्सुतीः पुरितता पृतन्यतः प्रुष्णते पृषतयः परिष्कृतः
पत्वने परमतां पृतन्यवः पस्पशे च पतयिष्णु पायवः ४१
प्रउगं प्रयसः प्रजापतेरहृदयेनापि पितामहश्रुतिः
परमेष्ठी च पतत्त्रिणश्रुतिः पृतनाज्येषु च पुण्डरिस्रजाम् ४२
पतङ्गं पिशङ्गाश्रुतिः पार्वतेयी पराचः प्रतीचीश्रुतिः पाकलाय
पुरन्धिः पुरोडाशशब्दः परिष्टौ पृदाकुः पराके च पल्पूलनेन ४३
पर्यारि पर्यारिणी पार्यिष्णुश्रुतिः पौरुषेयश्रुतिः प्रावृषा पर्वतिः
प्रोषिष्यतेपि प्रतीपं प्रतीकश्रुतिः प्रावृतस्य श्रुतिः प्रासचाय ४४
प्रायश्चित्तिश्रुत्प्राकाशौ प्राशृङ्गश्रुत्पूर्वेद्युश्च
पूतुद्रुश्रुत्प्रश्नम्प्रच्छत्प्रत्नप्रत्तश्रुत्पड्बीशम् ४५
प्राणायनः पिशङ्गिला प्रावाहणिः पिलिप्पिला
प्रैयंगवं प्रियङ्गवः पावीरवी पवीरवम् ४६
प्रेमाणम्प्राणिने प्रेणा प्रेता पौतुद्रवश्रुतिः
पुरूरवाः परुच्छेपः परमश्रुत्प्रवत्वति ४७
प्रातः पुरोडाशिन्यश्च पार्याः पापीयसीश्रुतिः
पोषयित्नु च पीवानः पावकः पाजसा श्रुतिः ४८
प्राचः प्रक्षश्रुतिः प्लाक्षः फलिगं फलिनीश्रुतिः
बृहस्पतिश्रुतिस्तद्वद्बन्धुना बल्बजाश्रुतिः ४९
बार्हस्पत्यश्रुद्बलाकाबहिष्टाद्बम्भारिश्रुद्ब्राह्मणाच्छꣳसिने च
बर्हिष्यश्रुद्बार्हतश्रुद्बलक्षीभातृव्यश्रुद्भेषजश्रुद्भरिभ्रत् ५०
भालन्दनो भरद्वाजो भुरण्युश्रुच्च भौवनः
भौवायनो भिषज्यन्तो भैषज्यमपि भामितः ५१
मालङ्गा मदिरा मुद्गा मान्दा मध्यमशब्दवत्
ममत्तु च मनीषाणां मुष्करा मारुतश्रुतिः ५२
मार्जालीय मनोतायै मरुत्वतीयश्रुतो मतस्नाभ्याम्
मध्यन्दिने मघोनी स्यान्माध्यन्दिनमातरिश्वशब्दौ च ५३
मिथुयामृडयन्तश्रुन्मुमुचानामादयिष्णवो मद्गुः
महिमा मदिन्तमश्रुन्महिना मान्थीलवो मलिम्लश्रुत् ५४
मस्तिष्कश्रुन्मस्मसा माꣳस्पचन्या मानव्यश्रुन्माहिनं मादयद्ध्यै
युष्मानीतो यादृशे यातुजूनां यावद्यज्ञायज्ञियश्रुद्यवागूः ५५
यायावरो युनजते युवानं यजथश्रुतिः
योयुप्येत यजत्राश्रुद्युक्त्वायापि च यव्युधः ५६
रुक्मन्तं राधयिष्यामो राजन्यश्रुच्च रुक्मते
रैवतश्रुल्लप्सुदिनो लोपाशो लोमशश्रुतिः ५७
वत्सतरश्रुद्वरिवो वरिमा वसतीवरी वरूत्रिश्रुत्
विप्रविपश्चिच्छब्दौ विवेष वार्द्ध्राणसो वरत्राश्च ५८
वीडित वडबवनस्पति वानस्पत्यश्रुतो वसव्यश्रुत्
वासिष्ठश्च वनिष्ठुर्वस्यष्टिर्विष्टपं व्यचिष्ठं च ५९
वृषदंशो विदुषश्रुद्विषुणस्य विदीगयो विदानश्रुत्
विविदानो विदधश्रुद्विथुरा विश्पत्नियै विषूचश्रुत् ६०
वायव्यवैश्वानरवीर्य विद्या वासन्त वासन्तिक वार्षिकश्रुत्
वृत्वाय वल्मीक वराह शब्दौ वीथो वपा व्याघ्र वरीयसीश्रुत् ६१
वासवावंसगो वाहसो वायवो वस्यसीशब्दवद्वीरुधो वीरताम्
वाघतो वर्तिका विश्वतो विश्पतिश्रुच्च वाच्यायनो विश्ववीतश्रुतिः ६२
शुश्रूषेण्यां शिश्रियाणश्शरव्याशब्दौ शग्मां शारदश्रुच्छवर्तान्
श्रायन्तीयं शिंशुमारश्शिमीवाञ्छब्दः शुन्ध्यूश्शम्बरस्य श्वितिङ्गाः ६३
शकुन्तिकाशयण्डकश्रवस्यवश्च शुश्रुवान्
शिखण्डशैशिरश्रुतिश्शचीपतिश्च शित्पुटः ६४
शुनश्शेपं शुनासीरा शीर्षण्या शुष्मिणश्रुतिः
शौल्बायनश्शमयितोः शार्दूलाय च शुष्मयम् ६५
शौचेयश्शोशुचानश्च शिशानश्शरदश्श्रुतिः
शुभितं शरभं श्रैष्ठ्य श्रेष्ठ श्यामाकशब्दवत् ६६
श्वितानश्शुरुधश्श्वात्राश्शमित्रे शाक्वरश्रुतिः
शण्डाय षोडशश्रुच्च सुषाव समया स्वरिः ६७
स्वस्रीयस्स्वरणं सिन्धुस्स्वसारश्रुत्ससस्ति च
सनुतस्सनिता सख्यं सखायं सलिलश्रुतिः ६८
सचेरन्सूकरस्सूच्या सुतानां सुम्नयाश्रुतिः
सलावृकी सिनीवाली समान्यस्थावरश्रुतिः ६९
समना समने सम्यत्सोमेन्द्रं सानग सुवानश्रुत्
सृञ्जयान्सृमरस्सङ्गे सायुज्यं साधुया सिषासन्तीः ७०
सुषुपुषस्सुषुवाणं समावती स्वरुं सदस्य समुद्रियशब्दवत्
स्वदयिता च सनेमि सवीमनि स्थविमतस्सरिरस्य सनिष्यवः ७१
सत्रस्यर्द्ध्या सगरस्सुषिरस्वारसारङ्गशब्दाः
सब्दस्सुब्धान्सनवथ सकृथ्स्वाङ्कृतस्संस्कृतं च ७२
स्नावन्याभ्यां सवन सदन स्वादुशब्दास्सनीयान्
सर्णीकाय स्वदित सुवित स्वस्तिशब्दास्स्वपन्तम् ७३
साधारणं सर्दिगृदिं सभेयस्सालावृकेभ्यश्च सरीसृपेभ्यः
संस्कृत्य सुत्यास्तनयित्नुशब्दौ स्वात्तं समानत्र समस्य सङ्काः ७४
सावित्र साहन्त्य सपत्न सूनृताशब्दा हविष्यं च हलीक्ष्णशब्दवत्
हेमन्त होत्रीय हिरण्ययश्रुतो हैमन्तिकश्रुच्च हिकं हिरण्मयम् ७५
प्रपञ्चत्वादनिङ्ग्यानां दिङ्मात्रमिह सूचितम्
अतोऽनुक्तञ्च यत्किञ्चिदुन्नेयन्तन्मनीषिभिः ७६
एषामनिङ्ग्यपदानां पदवी सन्दर्शिता सुगता सुधिया
देवीमनीषिसुतेन श्रीवत्साङ्केन तैत्तिरीयाणाम् ७७
इति अनिङ्ग्यप्रकरणम् ७
                                  सप्तलक्षणं समाप्तम्