Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > याज्ञवल्क्यशिक्षा Yājñavalkya Śhikṣhā

यज्ञवल्क्यऋषिप्रणीता याज्ञवल्क्यशिक्षा

श्रीः । अथातस्त्रैस्वर्यलक्षणं व्याख्यास्यामः
उदात्तश्चानुदात्तश्च स्वरितश्च तथैव च
लक्षणं वर्णयिष्यामि दैवतं स्थानमेव च १
शुक्लमुच्चं विजानीयान्नीचं लोहितमुच्यते
श्यामं तु स्वरितं विन्द्यादग्निमुच्चस्य दैवतम् २
नीचे सोमं विजानीयात्स्वरिते सविता भवेत्
उदात्तं ब्राह्मणं विन्द्यान्नीचं क्षत्रियमुच्यते ३
वैश्यं तु स्वरितं विन्द्याद्भारद्वाजमुदात्तकम्
नीचं गौतममित्याहुर्गार्ग्यं च स्वरितं विदुः ४
विन्द्यादुदात्तं गायत्रं नीचं त्रैष्टुभमुच्यते
जागतं स्वरितं विन्द्यादत एवं नियोगतः ५
गान्धर्ववेदे ये प्रोक्ताः सप्त षड्जादयः स्वराः
त एव वेदे विज्ञेयास्त्रय उच्चादयः स्वराः ६
उच्चौ निषादगान्धारौ नीचौ ऋषभधैवतौ
शेषास्तु स्वरिता ज्ञेयाः षड्जमध्यमपञ्चमाः ७
षड्जो वेदे शिखण्डिः स्यादृषभः स्यादजामुखे
गवा रम्भन्ति गान्धारं कौञ्चाश्चैव तु मध्यमम् ८
कौकिलः पञ्चमो ज्ञेयो निषादं तु वदेद्गजः
आश्वश्च धैवतो ज्ञेयः स्वराः सप्त विधीयते ९
निमेषमात्रः कालः स्याद्विद्युत्कालस्तथापरे
अक्षरात्तुल्ययोगाच्च मतिः स्यात्सोमशर्मणः १०
सूर्यरश्मिप्रतीकाशात्कणिका यत्र दृश्यते
अणवस्य तु सा मात्रा मात्रा च चतुराणवा ११
मानसे चाणवं विन्द्यात्कण्ठे विन्द्याद्द्विरावणम्
त्रिराणवं तु जिह्वाग्रे निःसृतं मात्रिकं विदुः १२
अवग्रहे तु कालः स्यादर्धमात्रा विधीयते
पदयोरन्तरे काल एकमात्रा विधीयते १३
ऋचोर्धे तु द्विमात्रः स्यात्त्रिमात्रः स्यादृगन्तके
रिक्तं तु पाणिमुत्क्षिप्य द्वे मात्रे धारयेद्बुधः १४
एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् १५
विवृतौ चावसाने च ऋचोर्धे च तथापरे
पदे च पादसंस्थाने शून्यहस्तं विधीयते
प्रणवं तु प्लुतं कुर्याद्व्याहृतीर्मातृका विदुः १६
चाषस्तु वदते मात्रां द्विमात्रां वायसोऽब्रवीत्
शिखी वदति त्रिमात्रां मात्राणामिति संस्थितिः १७
वर्णो जातिश्च मात्रा च गोत्रं छन्दश्च दैवतम्
एतत्सर्वं समाख्यातं याज्ञवल्क्येन धीमता १८
हस्तौ तु संयतौ धार्यौ जानुभ्यामुपरि स्थितौ
गुरोरनुमतं कुर्यात्पठन्नान्यमतिर्भवेत् १९
ऊरुभागे तृतीये तु करं विन्यस्य दक्षिणम्
प्रसन्नमानसो भूत्वा किंचिन्निम्नमधोमुखम् २०
प्रणवं प्राक् प्रयुञ्जीत व्याहृतीस्तदनन्तरम्
सावित्रीं चानुपूर्व्येण ततो वेदान्समारभेत् २१
कूर्मोऽङ्गानीव संहृत्य चेष्टां दृष्टिं दृढं मनः
स्वस्थः प्रशान्तो निर्भीको वर्णानुच्चारयेद्भुधः २२
नाभ्याहन्यान्न निर्हन्यान्न गायेन्नैव कम्पयेत्
यथैवोच्चारयेद्वर्णांस्तथैवैतान्समापयेत् २३
निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिन्तयेत्
सममुच्चारयेद्वर्णान्हस्तेन च मुखेन च २४
स्वरश्चैव तु हस्तश्च द्वावेतौ युगपद्भवेत्
हस्तभ्रष्टः स्वरभ्रष्टो न वेदः फलमश्नुते २५
न करालो न लम्बोष्ठो नाव्यक्तो नानुनासिकः
गद्गदो बद्धजिह्वश्च न वर्णान्वक्तुमर्हति २६
प्रकृतिर्यस्य कल्याणी दन्तष्ठौ यस्य शोभनौ
प्रगल्भश्च विनीतश्च स वर्णान्वक्तुमर्हति २७
शङ्कितं भीतमुद्धृष्टमव्यक्तमनुनासिकम्
काकस्वरं मूर्ध्निगतं तथा स्थानविवर्जितम् २८
विस्वरं विरसं चैव विश्लिष्टं विषमाहतम्
व्याकुलं तालुहीनं च पाठदोषाश्चतुर्दश २९
संहितासारबहुलः पदसंज्ञासमाकुलः
क्रमसंधिसमाकीर्णो दुस्तरो मन्त्रसागरः ३०
ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः
साम्नां वा सरहस्यां च सर्वपापैः प्रमुच्यते ३१
संहिता नयते सौर्यं पदं च शशिनः पदम्
क्रमश्च नयते सूक्ष्मं यत्तत्पदमनामयम् ३२
कालिन्दी संहिता ज्ञेया पदयुक्ता सरस्वती
क्रमेणावर्तयेद्गङ्गा शंभोर्वाणी तु नान्यथा ३३
यथा महाह्रदं प्राप्य क्षिप्तो लोष्टो विनश्यति
एवं दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ३४
आम्रपालाशबिल्वानामपामार्गशिरीषयोः
वाग्यतः प्रातरुत्थाय भक्षयेद्दन्तधावनम् ३५
खदिरश्च कदम्बश्च करवीरकरञ्जकौ
एते कण्टकिनः पुण्याः क्षीरिणस्तु यशस्विनः ३६
तेनास्यकरणे सूक्ष्मं माधुर्यं चैव जायते
त्रिफला लवणाक्तेन भक्षयेच्छिष्यकः सदा
क्षीणमेधाजनन्येषा स्वरवर्णकरी तथा ३७
हस्तहीनं तु योऽधीते मन्त्रं वेदविदो विदुः
न साधयति यजूँषि भुक्तमव्यञ्जनं यथा ३८
हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम्
ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ३९
ऋचो यजूँषि सामानि हस्तहीनानि यः पठेत्
अनृचो ब्राह्मणस्तावद्यावत्स्वारं न विन्दति ४०
ज्ञातव्यश्च तथैवार्थो वेदानां कर्मसिद्धये
पठन्मात्रापपाठात्तु पङ्के गौरिव सीदति ४१
स्वरवर्णप्रयुञ्जानो हस्तेनाधीतमाचरन्
ऋग्यजुःसामभिः पूतो ब्रह्मलोकमवाप्नुयात् ४२
न कुर्वीत पदं दीर्घं न कुर्वीत विलम्बितम्
पदस्य ग्रहमोक्षौ च यथा शीघ्रगतिर्हयः ४३
आगमं कुरु यत्नेन कारणं हि तदात्मकम्
आस्येन च शयं कुर्यात्पठन्नान्यमतिर्भवेत् ४४
न चास्य मुष्टिबन्धी स्यान्न चात्युत्तममाचरेत्
चुलुर्नौका स्फुटो दण्डी स्वस्तिको मुष्टिराकृतिः
एते वै हस्तदोषाः स्युः परशुश्चैव सप्तमः ४५
यथा वाणी तथा पाणी रिक्तं तु परिवर्जयेत्
यत्र यत्र स्थिता वाणी पाणिस्तत्रैव तिष्ठति ४६
यथा धनुष्यावितते शरे क्षिप्ते पुनर्गुणः
स्वस्थानं प्रतिपद्येत तद्वद्धस्तगतः स्वरः ४७
उत्तानं सोन्नतं किंचित्सुव्यक्ताङ्गुलिरञ्जितम्
स्वरविद्धं करं कुर्यात्प्रादेशोद्देशगामिनम् ४८
अङ्गुष्ठस्योत्तरे पर्वे तर्जन्योपरि यद्भवेत्
प्रादेशस्य तु सोद्देशस्तन्मात्रं चालयेत्करम् ४९
मनुष्यतीर्थोच्चं कृत्वा पितृतीर्थोदकं व्रजेत्
नामितं करपृष्ठे तु सुव्यक्ताङ्गुलिमोक्षणम् ५०
स्वरिते त्र्यङ्गुलं विन्द्यान्निपाते तु षडङ्गुलम्
उत्थाने तु नवाङ्गुल्यमेतत्स्वरस्य लक्षणम् ५१
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम्
शिष्याणामुपदेशार्थं कुर्याद्वृत्तिं विलम्बिताम् ५२
ऐन्द्री तु मध्यमा वृत्तिः प्राजापत्या विलम्बिता
अग्निमारुतयोर्वृत्तिः सर्वशास्त्रेषु निन्दिता ५३
मुष्ट्याकृतिर्मकारे तु नकारे तु नखाग्रतः
अनुस्वारेऽङ्गुष्ठक्षेप ऊष्मान्तेऽङ्गुलिमोक्षणम् ५४
उदात्तं भुवि पातेन प्रचयं नोग्र एव च
शेषं षडङ्गुलं विन्द्यान्निचितं तु विधीयते ५५
षडङ्गुलं तु जात्यस्य हस्तस्यानुपथस्य च
तच्चतुर्भागमात्रं तु हस्तस्तेनैव वर्तयेत् ५६
ककारान्ते टकारान्ते ङणे चाङ्गुलि नामयेत्
पञ्चाङ्गुल्यमकारे च तकारे कुण्डलाकृतिः ५७
ऊर्ध्वक्षेपाच्च योष्मा च अधःक्षेपाच्च यो भवेत्
एकैकमुत्सृजेद्धीरः स्वरिते तूभयं क्षिपेत् ५८
अङ्गुष्ठाकुञ्चनं लब्धौ अनुस्वारे त्वपाँरसम्
दीर्घे रङ्गे च तर्जन्याः प्रसारः परिकीर्तितः ५९
तर्जन्यङ्गुष्ठयोः स्पर्शेऽप्युदात्तं प्रतिविद्यते
नीचं तु मध्यमं कुर्याच्छेषं नीचतरं क्रमात् ६०
स्वरितं यद्भवेत्किंचिद्वकारसहसंयुतम्
ऊष्माणं तद्विजानीयान्निक्षिपेदुभयोरपि ६१
स्वरिते च विनिक्षिप्ते संयोगो यत्र दृश्यते
द्विमात्रिके भवेदेकमात्रिके तूभयं क्षिपेत् ६२
जात्ये च स्वरिते चैव वकारो यत्र दृश्यते
कर्तव्यस्तूभयोः क्षेपो वायव्य इति दर्शनम् ६३
शृङ्गवद्वाथ वत्सस्य कुमारीकुचयुग्मवत्
उभक्षेपस्वरो यत्र स विसर्ग उदाहृतः ६४
विसर्गान्तस्वरो यत्र स्वरितो यत्र दृश्यते
दीर्घश्चैव तुकारश्च तत्रोभक्षेप उच्यते ६५
त्रिविधस्तु भवेदूष्मा प्रचिता बलकान्तरा
स्वरिते प्रचितां विद्यान्निपाते बलकां विदुः ६६
उत्थाने तु तथा तारा एताभिस्त्रिभिरूष्मभिः
मात्रामात्रां विदित्वा तु ततः क्षेपं प्रयोजयेत् ६७
अक्षरं भजते काचित्काचिद्वित्ते प्रतिष्ठिता
समाने जातिका काचित्काचिदूष्माप्रदायिका ६८
यथा बालस्य सर्पस्य उच्छ्वासो लघुचेतसः
एवमूष्मा प्रयोक्तव्यो हकारः परिवर्जितः ६९
विवृतिं प्रत्यया ऊष्मां प्रवदन्ति मनीषिणः
तामेव प्रतिषेधन्ति आईऊए इति निदर्शनम् ७०
अष्टौ स्वरान्प्रवक्ष्यामि तेषामेव तु लक्षणम्
जात्योऽभिनिहितः क्षैप्रः प्रश्लिष्टश्च तथापरः ७१
पादवृत्तस्तथा भाव्य इतिस्वराः
एकपदे नीचपूर्वः सयवो जात्यः एकपद इत्याह ७२
नीचपूर्वः सयकारवकारौ वा जात्यः स्वरितो भवति । यथाजात्यं मनु-
ष्यानिति सुद्येति चम्वीव धान्यम् कन्या इव स्वः वीर्यं एवँह्याह यानि चा-
न्यानीदृग्लक्षणानि पदानि भवन्ति । ऎ आभ्यामुदात्ताभ्यामकारो रिफि-
तश्च यः । अकारो यत्र लुप्येत तं चाभिनिहितं विदुः ७३
यथा कुक्कुटः--असि कुक्कुटोसि । वेदः - असि वेदोसि । भागः--असि
भागोसि । मारुतः-असि मारुतोसि । श्वात्रः-असि श्वात्रोसि । ते-अप्सरसाम् तेप्सरसाम् । ते-अवन्तु तेवन्तु । कः-असि कोसि । सः-अहं सोहं । एवँहि यानि चान्यानीदृग्लक्षणानि पदानि भवन्ति ।
इउवर्णौ यदोदात्तावापद्येते यवौ क्वचित् । अनुदात्ते पदे नित्यं विन्द्यात्क्षै-
प्रस्य लक्षणम् ७४
यथा त्रि-अम्बकम् त्र्यम्बकम् । द्रु-अन्नः द्र्वन्नः । वीडु-अङ्गः वीड्वङ्गः
। वाजी-अर्वन् वाज्यर्वन् । एवँह्याह यानिचान्यानीदृग्लक्षणानि पदानि भवन्ति । इकारो यत्र दृश्येत इकारेणैव संयुतः । उदात्तश्चानुदा-
त्तेन प्रश्लिष्टो भवति स्वरः ७५
अभि-इन्धताम् अभीन्धताम् । अभि-इमं अभीमम् । वि-इहि वीहि ।
स्रुचि-इव स्रुचीव । चम्वी-इव चम्वीवेति । एवँह्याह यानि चान्या-
नीदृग्लक्षणानि पदानि भवन्ति ।
उदात्तपूर्वं यत्किंचिच्छन्दसि स्वरितं पदम्
एष सर्वं बहुस्वारस्तैरो व्यञ्जन उच्यते ७६
इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते अदिति सरस्वति महि विश्रुतीति भवन्ति ।
एवँह्याह यानि चान्यानीदृग्लक्षणानि पदानि भवन्ति
अवग्रहात्परो यस्तु स्वरितः स्यादनन्तरम्
तैरो विरामं तं विन्द्यादुदात्तो यद्यवग्रहः ७७
यथा गोमदिति गो-मत् । गोपताविति गो-पतौ । प्रप्रेति प्र-प्र । वि-
ततेति वि-तता । समिद्ध इति सम्-इद्धः । एवँह्याह यानि चान्या-नीदृग्लक्षणानि पदानि भवन्ति । स्वरेति स्वरिते चैव विवृतिर्यत्र दृश्यते । पादवृत्तो भवेत्स्वारः श्वित्र आदित्येति निदर्शनम् । श्वित्रः-आदित्यानाम् श्वित्र आदित्यानां । पुत्रः-ईधे-पुत्रईधे । दात्रे-एधि दात्र एधि । कः-ईम् कईम् । ताः-अस्य ताअस्य । एवँह्याह यानि चान्यानीदृग्लक्षणानि पदानि भवन्ति । उदात्ताक्षरयोर्मध्ये भवेन्नीचस्त्ववग्रहः ।
तथा भाव्यं भवेत्कम्पस्तनूनप्त्रेति निदर्शनम् ७८
यथा तनूनप्त्र इति तनू-नप्त्रे । तनूनपादिति तनू-नपात् । तनूनपातमिति
तनू-नपातम् । एवँह्याह यानि पदानि लक्षणानि भवन्ति ।
इत्यष्टपदसमाम्नाये वैशेषिके याज्ञवल्क्यवचनानां पदानां पाठः समाप्तः ॥

माध्यंदिनविरोधि स्यात्तथा भाव्यस्तु यः स्मृतः
स्वरो नैवात्र दृश्येत भिन्नोदात्तानुदात्तकौ १
स्वराः स्पर्शान्तः-स्थोष्माणः ।
कण्ठ्यजिह्वामूलीयतालव्यमूर्धन्यदन्त्योष्ठ्ययमा विसर्जनीयनिपाताद्याश्च किंवर्णदैवत्यलिङ्गाः स्वराः शुक्लाः नानादैवत्याः । स्पर्शाः कृष्णाः । कपिला अन्तस्थाः । ऊष्माणोऽरुणाः । नीला यमाः । हरिता नासि-क्याः । पीतोऽनुस्वारः । रक्तो जिह्वामूलीयः । पीत उपध्मानीयः । श्वेतो विसर्जनीयः । शबलो रङ्गः । नीलोऽनुनासिक्यः । इत्यन्तर्मध्य-मयोर्नासिक्यं विद्यात् । द्विरुदात्ताख्या इति स्मृतः । उदमनुदनिपाते आद्ये चोपसर्गे नामाख्याते चोपसर्गनिपाताश्चेति किंदैवत्याः । अक्षराणां च के पुरुषाः काः स्त्रियः कानि नपुंसकानीत्यत्र ब्रूमः । कण्ठ्या आग्नेया अकारादयः । जिह्वामूलीया नैऋर्त्याः ककारादयः । तालव्याः सौम्या-श्चकारादयः । वायव्या मूर्धन्याष्टकारादयः । रौद्रा दन्त्यास्तकारादयः ।
औष्ठ्या आश्विन्याः पकारादयः । शेषा वैश्वदेवाः अं इत्येवमादयः ।
स्वरास्तु ब्राह्मणा ज्ञेया वर्गाणां प्रथमाश्च ये
द्वितीयाश्च तृतीयाश्च चतुर्थाश्चापि भूमिपाः २
वर्गाणां पञ्चमा वैश्या अन्तस्थाश्च तथैव च
ऊष्माणश्च हकारश्च शूद्रा एव प्रकीर्तिताः ३
शुक्लवर्णानि नामानि आख्याता रोहिता मताः
कपिञ्जलास्तूपसर्गाः कृष्णाश्चैव निपातकाः ४
भार्गवगोत्राणि नामानि भारद्वाजा आख्याताः
वासिष्ठा उपसर्गास्तु निपाताः काश्यपाः स्मृताः
पीतवर्णश्चोपसर्गो निपातः कृष्णवर्णकः
सर्वं तु सौम्यमाख्यातं नाम वायव्यं दृश्यते
आग्नेयस्तूपसर्गः स्यान्निपातो वारुणः स्मृतः ५
प्रथमाश्च तथान्तस्थाः स्त्रीलिङ्गाः परिकीर्तिताः
शेषाक्षराणि षण्ढानि प्राहुर्लिङ्गविवेचकाः ६
नाम्नामिन्द्रो देवता वरुणः उपसर्गाणामादित्यः सर्वस्याक्षरगणस्य स्वरा वि-
सर्जनीयो यमाश्च पुँल्लिङ्गाः । ङञणनमा यरलवाः स्त्रीलिङ्गाः ।
शेषाण्यक्षराणि नपुंसकलिङ्गानीति । संधिश्चतुर्विधो भवति लोपागमौ वर्णविकारः प्रकृतिभावश्चेति । तद्यथा-तत्र लोपो भवति अयक्ष्माः-मा अयक्ष्मामा । शततेजाः-वायुः शततेजावायुः । तिग्मतेजाः-द्विषतः तिग्मतेजाद्विषतः ॥ इति लोपः ॥ आगमो भवति-यथा प्रत्यक् सोमः प्रत्यङ्
सोमः प्राक्सोमः प्राङ्सोमः अस्मान् सीते अस्मान्त्सीते

त्रीन् समुद्रान् त्रीन्त्समुद्रान् । इति आगमः । विकारो भवति आ-इदम् एदम् । आ-इमे एमे । आ-इष्टयः एष्टयः । प्र-इषितः प्रेषितः इति विकारः प्रकृतिभावः यथा-आशुः शिशानः । युञ्जानः प्रथमम् । अदि-
तिः षोडशाक्षरेण । देवो वः सविता । इति प्रकृतिभावः ॥
आकाशस्था यथा विद्युत्स्फुटितं मणिसूत्रवत्
एष च्छेदो विवृतीनां यथा बालेषु कर्तरी ७
द्वयोस्तु स्वरयोर्मध्ये संधिर्यत्र न दृश्यते
विवृतिस्तत्र विज्ञेया यईशेति निदर्शनम् ८
पिपीलिका पाकवती तथा वत्सानुसारिणी
वत्सानुसंसृता चैव चतस्रस्तु विवृत्तयः ९
पञ्च रङ्गाः प्रवर्तन्ते घातनिर्घातवज्रिणः
अहरप्रहरो ज्ञेय ऐउऋओ-इति निदर्शनम् १०
पिपीलिका आद्यन्तदीर्घा नाभ्या आसीदिति निदर्शनम्
पाकवत्युभयोर्ह्रस्वा विन इन्द्रेति निदर्शनम् ११
अन्ते च वत्सानुसृजतातानेत्यसौ आवोढमश्विनेति निदर्शनम्
वत्सानुसारिणी चादौ दीर्घा ताअस्येति निदर्शनम् १२
करिणी कुर्विणी चैव हरिणी हारिणीति च
तथाहंसपदा नाम पञ्चैताः स्वरभक्तयः १३
करिणी रहयोर्योगे कुर्विणी लहकारयोः
हरिणी रषयोर्योगे हारितं ऋषकारयोः १४
या तु हंसपदा नाम सा तु रेफषकारयोः
हरिणी हरयोर्विद्यात्कुर्विणी हलकारयोः १५
देवं बर्हिरिति करिणी उपह्वरेति कुर्विणी
हरिणी अरेपस इत्याहुर्हारिणी शतवल्हेति च १६
वर्षोवर्षीयतेसीति तथा हंसपदेति च
स्वरभक्तिं प्रयुञ्जानस्त्रीन्दोषान्परिवर्जयेत् १७
इकारं चाप्युकारं च ग्रस्तदोषं तथैव च
एतल्लक्षणमाख्यातं याज्ञवल्क्येन धीमता १८
सम्यक् पाठस्य स्रिद्ध्यर्थं शिष्याणां हितकाम्यया
अर्धमात्रास्वरं किंचित्पृथङ्न्यूनमिवोच्चरन्
ऋकारे च हकारे च हृत्कण्ठमनसानि च १९
नैतत्स्वरितपूर्वाङ्गे नापराङ्गे कथंचन
न स्वरे न च मात्रायां कथं स्वारो विधीयते २०
पराङ्गस्य तु यत्पूर्वं पूर्वाङ्गस्य तु यत्परम्
उभयार्धार्धसंयोगे स्वारं कुर्याद्विचक्षणः २१
संयोगे तु परं स्वार्थं परं संयोगनामकम्
संयुक्तस्य तु वर्णस्य न स्वार्थं पूर्वमक्षरम् २२
उदात्तेप्यनुदात्ते तु वामाया भ्रुव आरभेत्
उदात्तात्स्वरितोदात्तौ क्रमाद्दक्षिणतो न्यसेत् २३
स्वरितादनुदात्ता ये प्रचयांस्तान्प्रचक्षते
एकस्वरंरापिचातानाहुस्तत्वार्थचिन्तिकाः २४
प्रचयो यत्र दृश्येत तत्र हन्यात्स्वरं बुधः
स्वरितः केवलो यत्र मृदुस्तत्र निपातयेत् २५
दुर्बलस्य यथा राष्ट्रं हरते बलवान्नृपः
एवं व्यञ्जनमासाद्य अकारो हरते स्वरम् २६
उच्चादुच्चतरं नास्ति नीचान्नीचतरं तथा
अक्षरात्तुल्ययोगाच्च नीचे नीचगतानि च २७
स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च
स्वरप्रधानैस्तैः स्वार्यं व्यञ्जनं तेन सस्वरम् २८
व्यञ्जनान्यनुवर्तन्ते यत्र तिष्ठति स स्वरः
स्वरप्रधानं त्रैस्वर्यमाचार्याः प्रवदन्ति हि २९
मणिवद्व्यञ्जनं विद्यात्सूत्रवच्च स्वरं विदुः
आचार्याः सममिच्छन्ति पदच्छेदं तु पण्डिताः ३०
स्त्रियो मधुरमिच्छन्ति विकृष्टमितरे जनाः
उदात्तं नानुवर्तन्ते नीचं न स्वरितं तथा ३१
विस्वरं तं विजानीयाद्दीर्घह्रस्वविवर्जितम्
हरिवरुणवरेण्येषु धारापुरुषेषु च
स्वरिते रेफवैश्वानरो नकारः शेषाकारः स्वरिता नकाराः ३२
द्वौ वरुणौ च स्वरितौ
उदुत्तमं वरुणधारयंवरोरुधारा उरुधारा च होइते
मात्रिकं वा द्विमात्रं वा स्वरितं यदिहाक्षरम्
तस्यादितोऽर्धमात्रा वै शेषं च परतो भवेत् ३३
नकारान्ते पदे पूर्वे श्मश्रुभिः परतः स्थिते
छकारं न प्रयुञ्जीत ञशसंधिं समुच्चरेत् ३४
ओकारं प्लुतविज्ञेयं प्लुतमग्ना द्वितीयकम्
लाजीं छाचीं तृतीयं च विवेशेति चतुर्थकम् ३५
अधःस्विदासीत्पञ्चमं चोपरिस्विदासीच्च षष्ठकम्
सप्तमं तु भ्रुवोः स्मार अष्टमं नैव विद्यते ३६
उच्चस्थानगते हस्ते स्वरितं नोपपद्यते
अधस्था तु यदा गच्छेत्स्वरितं न तदा भवेत्
कचटतपा दृश्यन्ते संधिस्थानेषु नित्यशः
स्ववर्गेणैव संयुक्ता मोक्षं तत्र न कारयेत्
तकारान्ते पदे पूर्वे सकारे परतः स्थिते
प्रत्यारम्भं न कुर्वीत पापाविति निदर्शनम्
ककारान्ते पदे पूर्वे सकारे परतः स्थिते
खसवर्णं विजानीयात् भिखक्सेति निदर्शनम्
तकारान्ते पदे पूर्वे चवर्गे परतः स्थिते
मोक्षं तत्र च कुर्वीत यच्च पापौ निदर्शनम्
ङकारान्ते पदे पूर्वे सकारे परतः स्थिते
कसवर्णं विजानीयात्प्राङ्सोमेति निदर्शनम्
टकारान्ते पदे पूर्वे सकारे परतः स्थिते
टसवर्णं विजानीयात्संम्राट् संभृतेति निदर्शनम्
तकारान्ते पदे पूर्वे सकारे परतः स्थिते
छसवर्णं विजानीयात् तत्सवितुरिति निदर्शनम्
नकारान्ते पदे पूर्वे सकारे परतः स्थिते
तसवर्णं विजानीयात्त्रीन्त्समुद्रेति निदर्शनम्
पकारान्ते पदे पूर्वे शकारे परतः स्थिते
छासवर्णं विजानीयादनुष्टुच्छारदीति निदर्शनम्
मकारान्ते पदे पूर्वे सवर्णे परतः स्थिते
मसवर्णं विजानीयादिमंमेति निदर्श्नम्
वर्णे तु मात्रिके पूर्वे अनुस्वारो द्विमात्रकः
द्विमात्रे मात्रिको ज्ञेयः संयोगाद्यस्य यो भवेत्
अनुस्वारो द्विमात्रः स्यादृवर्णव्यञ्जनादिगः
ह्रस्वाद्वा यदि वा दीर्घाद्देवानाँ हृदयेभ्य इति
अनुस्वारस्योपरिष्टात्संवृतं यत्र दृश्यते
दीर्घं तं तु विजानीयाच्छ्रोताग्रावाणेति निदर्शनम्
अनुस्वारस्योपरिष्टात्संयोगो यत्र दृश्यते
ह्रस्वं तं तु विजानीयात्सँस्थेति निदर्शनम्
अनुस्वारश्च यो दीर्घादक्षराच्च भवेत्परः
स तु ह्रस्व इति ज्ञेयो मन्त्रेष्वेव विभाषया
ओभावश्च विवृत्तिश्च शषसा रेफ एव च
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः
यथा भावप्रसंधानमुकारादिपरं पदम्
स्वरान्तं तादृशं विद्याद्यन्यद्व्यक्तमूष्मणः
उभावादुत्थितश्चोष्मा तां तु केलिं विनिर्दिशेत्
विवृतं प्रति या ऊष्मा विज्ञेया विकटानना
लीढातिलीढविद्युच्च शषसेषु प्रकीर्तिताः
जिह्वामूले च रेफे च विज्ञेया विठकाशठा
उपध्मानीयसहिता पुष्पिणीं तां विनिर्दिशेत्
अन्यत्र यो भवेदूष्मा सुलभां तां विनिर्दिशेत्
पादाद्यन्तं पदाद्यन्तं तथावग्रहकालिकम्
ईषत्स्पृष्टं विजानीयात्तस्मिन्काले तु कारयेत्
पादादौ च पदादौ च संयोगावग्रहेषु च
यः शब्द इति विज्ञेयो योऽन्यः स य इति स्मृतः
उपसर्गपरो यस्तु पदादिरपि दृश्यते
ईषत्स्पृष्टं यथा विद्युत्पदच्छन्दात्परं भवेत्
त्वदर्थवाचिनौ वोवां वावै यदि निपातजौ
आदेराजविकल्पार्था ईषत्स्पृष्टा इति स्मृताः
विभाषायामेकारः स्यात्तथा नेतैः पदात्परः
भवन्तेत्यपि पूर्वैव तथा च स पदादपि
यदेव लक्षणं यस्य वकारस्यापि तद्भवेत्
यत्र यत्र विशेषः स्यादिदानीं स स कथ्यते
वकारस्त्रिविधः प्रोक्तो गुरुर्लघुर्लघूत्तरः
आदौ गुरुर्लघुर्मध्ये पदान्ते तु लघूत्तरः
उपांशु त्वरितं चैव योऽधीते हृदि संज्ञकः
अपि रूपसहस्रेषु सदेहेषु प्रवर्तते
पञ्चविद्यां न गृह्णन्ति जडाः स्तब्धाश्च ये नराः
आलस्याश्चैव रोगाश्च येषां च विस्मृतं मनः
अहिरिव गुणाद्भीतः संमानान्नरकादिव
राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति
न भोजनविलम्बी स्यान्न च नारीनिबन्धनः
सुदूरमपि विद्यार्थी व्रजेद्गरुडहंसवत्
यथा खनन्खनित्रेण नरो वार्यधिगच्छति
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति
सुखार्थी चेत्त्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम्
सुखिनस्तु कुतो विद्या सुखं विद्यार्थिनः कुतः
गुणिता शतशो विद्या सहस्रावर्तिता पुनः
आगमिष्यति जिह्वाग्रे स्थलनिम्नमिवोदकम्
शतेन गुणिता विद्या सहस्रेण च तिष्ठति
शतानां च सहस्रेण प्रत्यञ्चदवतिष्ठति
जलमभ्यासयोगेन शिलायाः कुरुते क्षयम्
कर्कार्णामृदुतस्तस्य किमभ्यासान्न साध्यते
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा
अथवा विद्यया विद्या चतुर्थं नोपलभ्यते
शुश्रूषारहिता विद्या ह्यल्पमेधागुणैः सह
वन्ध्या च यौवनी तस्या न विद्या फलिनी भवेत्
हयानामिव जात्यानामर्धमात्रार्धशायिनाम्
न हि विद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति
यथा पिपीलिकाभिः पांसुभिर्वल्मीकं क्रियते महत्
न तत्र बलसामर्थ्यमुद्यमस्तत्र कारणम्
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम्
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु
अन्नव्यञ्जनयोर्भागस्तृतीयमुदकस्य च
वायोः संचारणार्थाय चतुर्थमुपकल्पयेत्
हकारं पञ्चमैर्युक्तमन्तस्थैश्चापि संयुतम्
औरस्यं तं विजानीत्कण्ठ्यमाहुरसंयुतम्
हकारो यत्र पूर्वस्थो ह्यन्तस्थाद्यो भवेत्परः
पदकाले वियुज्येत संहितायां स औरसः
मेघदुन्दुभिनिर्घोषो ज्ञायते पयसो हृदात्
एवं नादं प्रयोक्तव्यं सिंहस्य रुदितं यथा
मासे भाद्रपदे मेघाः शब्दं कुर्वन्ति यादृशम्
एवं गह्वरमासाद्य शुक्रं दुदुह्रेति दर्शनम्
शेषाणां वानरा युद्धमुत्पतन्ति पतन्ति च
एवं वर्णाः प्रथोक्तव्या इहेहैषां निदर्शनम्
यथा पुत्रवती स्नेहाच्चुम्बते निजमौरसम्
एवं वर्णाः प्रयोक्तव्या युञ्जानेति निदर्शनम्
दुर्दरो जयदेशे च प्रफतेषुर्नयाप्यया
एवं वर्णाः प्रयोक्तव्या अपां फेनेति निदर्शनम्
यथा भारभराक्रान्ता निश्वसन्ति नरा भुवि
एवं वर्णाः प्रयोक्तव्या अद्भ्यः संभृत इत्यपि
कुक्कुटः कामलुब्धश्च ककारद्वयमुच्चरेत्
एवं वर्णाः प्रयोक्तव्याः कुक्कुटोसीति दर्शनम्
वडवा च हयं दृष्ट्वा योनिं विकुरुते यथा
एवं वर्णाः प्रयोक्तव्याः सदुन्दुभेति दर्शनम्
रङ्गे चैव समुत्पन्ने नो ग्रसेत्पूर्वमक्षरम्
स्वरं दीर्घं प्रयुञ्जीत पश्चान्नासिक्यमाचरेत्
यथा सौराष्ट्रिका नारी अराँ इत्यभिभाषते
एवं रङ्गः प्रवक्तव्यो ङकारः परिवर्जितः
द्विमात्रिको मात्रिको वा नासामूलं समाश्रितः
अन्ते प्रयुञ्जते रङ्गः पञ्चमैः सानुनासिकः
यथा सौराष्ट्रिका नारी आराँ इत्यभिभाषते
एवं रङ्गं विजानीयात् ङकारपरिवर्जितम्
अनन्तरं मकारस्य यो रङ्गस्तत्र रञ्ज्यते
सर्वानुनासिकं विन्द्यादेषा मध्योपधानिका
यरलवशषसहरज्यन्ते चोपधानिका
गर्वान्ते रङ्गते यस्तु सर्वैः सर्वानुनासिका
नासादुत्पद्यते रङ्गः कांस्येन समनिःस्वनः
मृदुश्चैव द्विमात्रः स्याद्वृष्टिमान्स्यान्निदर्शनम्
यथा व्याघ्री हरेत्पुत्रान्दंष्ट्राभिर्न च पीडयेत्
भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत्
मधुरं च न चाव्यक्तं व्यक्तं चापि न पीडितम्
सनाथस्यैकदेशस्य न वर्णाः शंकरं गताः
यथा सुमत्तनागेन्द्रः पदात्पदं निधापयेत्
एवं पदं पदाद्यन्तं दर्शनीयं पृथक् पृथक्
गीती शीघ्री शिरःकम्पी यथा लिखितपाठकः
अनर्थज्ञोल्पकण्ठश्च षडेते पाठकाधमाः
माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः
धैर्यं लयसमत्वं च षडेते पाठका गुणाः
चतुरक्षरषट्कं च निवर्तेत पुनःपुनः
आवर्तते पदं यच्च द्विस्त्रिराम्रेडितं हि तत्
यथा धाम्ने धाम्नेति यजुषे यजुषेति निदर्शनम्
हीयते वर्धते चापि पदं यत्र कृशोदरम्
उपचारः स विज्ञेय उभे सुश्चन्द्रेति निदर्शनम् ॥

अथ सप्तविधाः संयोगपिण्डाः ।
अयःपिण्डो दारुपिण्ड ऊर्णापिण्डो ज्वालापिण्डो मृत्पिण्डो वायुपिण्डो वज्रपिण्डश्चेति ।
यमान्विद्यादयःपिण्डान् सान्तस्थं दारुपिण्डवत्
अन्तस्थं यमवर्जं तु ऊर्णापिण्डं विनिर्दिशेत्
अन्तस्थं यमसंयोगे विशेषो नोपलभ्यते
अशरीरं यमं विन्द्यादन्तस्थः पिण्डनायकम्
ज्वालापिण्डान्सनासिक्यान्सानुस्वारांस्तु मृन्मयान्
सोपध्मा वायुपिण्डाश्च जिह्वामूले तु वज्रिणः
अयःपिण्डो नाम यथा
अग्नीः पक्तीः नातनच्मि
दारुपिण्डो नाम यथा
अश्वः सूर्यः विश्वाजतीति भवति
तत्र ऊर्णापिण्डो नाम यथा
यस्मिन् अत्यस्मिन् अमुष्मिन् इति भवति
तत्र ज्वालापिण्डो नाम यथा
ब्रह्मा वह्निः गृह्णामीति भवति
तत्र मृत्पिण्डो नाम यथा
साँस्था सँस्कर्तारः सँस्वर्त इति । तत्र वायुपिण्डो नाम यथा ।
देव सवितः
युञ्जानः प्रथमम्
प्रादिवः ककुत्सुप्तमिति भवति
तत्र वज्रपिण्डो नाम यथा
इष्कृतिः निष्कृतिः ऋक्साम इति भवति
प्रथममेव षकारेण सकारेणैव संयुतम्
एतत्स्वरं समासाद्य अग्निष्वात्ता निदर्शनम्
प्रथमेन ठकारेण थकारेणैव संयुतम्
एतत्स्वरं समासाद्य अधिष्ठाननिदर्शनम्
प्रथममेव णकारेण नकारेणैव संयुतम्
एतत्स्वरं समासाद्य त्रिणवत्रयस्त्रिँशाविति निदर्शनम्
प्रथममेव रङ्गेण नकारेणैव संयुतम्
एतद्रञ्जितमासाद्य वृष्टिमानिति निदर्शनम्
एते ककारादयो मकारपर्यवसानाः कृष्णा व्याख्याताः शनैश्चरदैवत्याः
चत्वार्यन्तस्था यरलवाः कपिलवर्णा अग्निदैवत्याः
चत्वार्यूष्माणः शषसहा अरुणवर्णा आदित्यदैवत्याः
त्रयस्त्रिँशद्व्यञ्जनानि स्पर्शा अन्तस्था ऊष्माणश्चेति
चतुर्विधं करणं स्पृष्टमस्पृष्टं संवृतं निवृतं चेति
संवृतो घोषा विवृता अघोषाः
विँशतिर्घोषास्ते गजडदबा घझढधभा ङञणनमाः यरलवाश्चेति
त्रयोदश अघोषास्ते कचटतपाः खछठथफाः शषसाश्चेति
अष्टौ वर्णस्थानानि भवन्ति
उरःकण्ठ्यमूर्धन्यतालुदन्त्यजिह्वामूलयमानुनासिक्याश्चेति
द्वौ औरस्यौ हहा इति
अ आ आ३ त्रयः कण्ठ्याः
षट्मूर्धन्याः ऋटठडढणष इति
दश तालव्याः चछजझञयशैईई३ इति
अष्ट दन्त्याः तथदधनऌलसाः
एकादश ओष्ठ्याः पफबभममाउऊऊ३ छौपध्माचेत्यादयः
एको दन्तमूलीयो रेफः
जिह्वामूलीयाः पञ्च कुंखुंगुंघुंङुं इति
क्मख्मग्मघ्मकुंखुंगुंघुं इति यमाश्चत्वारः
रुक्मेति प्रथमो ज्ञेयः सक् इत्यपरो भवेत्
तृतीयः सद्म इत्याहुरुपध्मेति चतुर्थकः
प्रथमौ चौष्ठनासिक्यावोष्ठनासे उपाश्रितौ
द्वितीयः कण्ठ्यदन्त्यश्च नासामूलमुपाश्रितः
तृतीयः कण्ठ्यजिह्वाग्रे नासायामेव निर्दिशेत्
चतुर्थो हृदि नासिक्यः कण्ठे चाभिहिता यमाः
आपञ्चमैश्चैकपादः संयुक्तं पञ्चमाक्षरम्
यस्मात्तत्र निवर्तन्ते श्मशानादिव बान्धवाः
यत्किंचिद्वाङ्मयं लोके सर्वमत्र प्रतिष्ठितं सर्वमत्र प्रतिष्ठितमिति
ऋवर्णे तित्परे सादावनुस्वारो द्विमात्रकः
संयोगे परभूतेषु ह्रस्व एवोच्यते बुधैः ॥
इति श्रीयाज्ञवल्क्यशिक्षा समाप्ता ॥
                    इति श्रीमहर्षियोगिवरयाज्ञवल्क्यप्रोक्ता शिक्षा समाप्ता