Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > शिक्षादिवेदाङ्गसूची Śikṣādivedāṅgasūcī

शिक्षादिवेदाङ्गसूची

भारद्वाजव्यासपारिशंभुकौहलहारिताः
बोधायनो वसिष्ठश्च वाल्मीकिश्च महामुनिः १
अथापिशलिकौण्डिन्यपाणिन्यात्रेयनारदाः
पुलस्त्यबाडभीकारप्लाक्षिप्लाक्षायणास्तथा २
मुनयोऽष्टादश ह्येते शिक्षाकाराः प्रकीर्तिताः
कालनिर्णयसिद्धान्तलक्ष्मीकान्तारुणास्तथा ३
सर्वसंमतशिक्षा च स्याच्छिक्षाचन्द्रिका ततः
माहिषेयकारिका च तथा शिक्षासमुच्चयः ४
उच्चोदर्कि वैद्यनाथबैड् जटाचन्द्रिका अपि
जटावलिर्योहिभाष्यं सा जटामणिरित्यपि ५
स्यात्प्रातिशाख्यमात्रेयभाष्यं वररुचेरपि
स्यान्माहिषेयभाष्यं च तथा तत्सूत्रकारिका ६
ततस्त्रिभाष्यरत्नं च वैदिकाभरणं तथा
दीपं याजुषभूषा च स्याद्वर्णक्रमदर्पणम् ७
अथ शिक्षासंग्रहश्च स्याद्वर्णसारदीपिका
तथैव स्वरपञ्चाशत् स्वरावधानदर्पणम् ८
स्वरचूडामणिश्चान्तनिर्देशः सप्तलक्षणम्
वर्णक्रमचतुःश्लोकी तथा रावणबैडपि ९
स्यात् षड्विंशतिसूत्रं च योहिप्राप्तिस्तथैव च १०