Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > माध्यन्दिनीयशिक्षा Mādhyandinīya Śhikṣhā


माध्यन्दिनीय शिक्षा

माध्यन्दिनमहर्षिप्रणीता शिक्षा
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् १
स्वराद्द्वित्वमवाप्नोति व्यञ्जनं व्यञ्जने परे
हरौ न यद्यचः पूर्वौ निमित्तं व्यञ्जनस्य च २
इषे त्त्वोर्जे त्वा । स्वरपूर्वाः शषसहा अन्तस्थाश्चतथा यदि । निमित्तभूता
द्वित्वस्य स्पर्श एव न संशयः ३
अश्मन् । स्पर्शपूर्वा यरलवाः स्पर्शपूर्वाः शरस्तथा । व्यञ्जनञ्च ततः पूर्वं द्वे-
धाभावं न चाप्त्नुयात् ४
अयक्ष्माः । विसर्गाच्च परः कादिर्व्यञ्जनात्किल पूर्वगः । ह्रस्वपूर्वौ नङौ द्वि-
त्वमापद्येते पदान्तगौ । अपि स्वरतरावेव श्लिष्टौ भवति नान्यथा ५
विष्णोः क्रमः । दध्यङ्ङृषि । अश्मन्नूर्ज्जम् । अत्र येन निमित्तेन द्वित्वं व्यञ्ज-
नमश्नुते । द्वितीयस्य चप्रथमस्तुरीयस्य तृतीयकः ६
बाहुब्भ्याम् । स्ववर्गे च परे चैवापञ्चमे परतःस्थिते । सवर्णे च यमे चैव
ऋवर्णे न तथा शलि ७
तद्देवानाम् । ऋद्धि । तन्नं । अग्निः । पितॄणाम् । अत्र कवर्गीयखकारा नि-
र्दिश्यन्ते । आखरेष्ट्ठाः १ आखुस्ते २ मयूखैः ३ द्याम्मा लेखीः ४ ततः खनेम ५ उखाङ्कृणोतु ६ उखांम्परिददामि ७ खनत्ववट ८ दधतूखे ९ मित्रैतान्त उखाम् १० त्वङ्खाद ११ सुखादितान १२ अभारुखा १३ गन्धर्व्वाखनन् १४ आखिदते १५ प्रखिदते १६विशिखा इव १७ श्रियै शिखा १८ भूभ्याखून् १९ ऋतूनामाखुः २० खड्गोवैश्वदेवः २१ नखेषु २२ मोखा भ्राजन्ती २३ उखायाः सदने स्वे २४ मधु शाखः२५ स्त्रीषखम् २६ शङ्खध्मम् २७ मखस्यशिरोऽसि २८ मखाय त्वा २९ अथ गलितर्चानां निर्णयः । इषे त्त्वा एदम् अश्वस्तूपरः । समिद्धोऽञ्जन् । सहस्रशीर्षा पुरुषः । तदेव । स्वाहा
प्राणेभ्यश्चैष्वध्यायेषु न गलिताऋचः १
द्वितीयेऽध्याये अग्ने व्रतपते इति प्रविष्टास्त्रयस्त्रिंशत् २
तृतीयेऽयमग्निः पुरीष्य इति प्रविष्टा द्वाषष्टिः ३
पञ्चमेऽग्ने व्रतपा उरु विष्णो इति प्रविष्टे एकचत्वारिंशत् ५
षष्ठे प्रथमा ऋग्गलिता रेवतीरमध्वमित्यतः परादेवस्य त्वान्तः पञ्चविंशत् ६
वाचस्पतये स्वाङ्कृतोऽसि आत्मने मॅग्ने नया यन्नोलुप्ते चतुश्चत्वारिंशत् ७
आदित्येभ्यस्त्वेत्यत्र कदा चन सँव्वर्चसा देवा गातुविद उदुत्यमवभृथ
निचुम्पुण मिलिता अष्टपञ्चाशत् ८
देवसवितरित्यत्र देवस्याहं एकोनचत्वारिंशत् ९
अपो देवा इत्यत्र सोमस्य त्विषिरिमं देवा इति लुप्तेद्वात्रिंशत् १०
युञ्जानः प्रथममित्यत्र युञ्जते देवसवितः पृथिव्याःसधस्थाद् वसवस्त्वाच्छृ-
न्दन्तु मिलिताष्टसप्ततिः ११
दृशानो रुक्क्म इत्यत्र हंसः शुचिषदक्रन्ददग्निर्दृशानो रुक्क्मः समिद्धाग्निं स-
हरय्या पुनरूर्ज्जायन्तेभवतन्नष्टोत्तरशतम् १२
मयि गृह्णामीत्यत्राग्निर्मूर्द्धापाम्पृष्ठम्मही द्यौर्विष्णोः कर्माणि चित्रं देवानां
त्रिपञ्चाशत् १३
ध्रुवक्षितिरित्यत्र शुक्रश्च विश्वकर्मा त्वा द्वे नभश्चेषश्चेति पञ्चविंशतिः १४
अग्ने जातानित्यत्राग्नेर्मूर्द्धा त्वामग्ने पुष्कराद्भुवोयज्ञस्यायमिहायन्ते लोकं पृण
तां अस्येन्द्रँविश्वानवैता लुप्यन्ते परमेष्ठी त्वा द्वे मिलिते चतुः पञ्चाशत् १५
नमस्ते इत्यत्र नीलग्रीवा द्वितीया नमोऽस्तु द्वे मिलितास्त्रयस्त्रिषष्टिः १६
अश्मन्नूर्जमित्यत्र हिमस्य त्वा वाचस्पतिं विश्वकर्म्मन्हविषोदुत्त्वा इन्द्रं वि-
श्वा नक्तोषासाग्ने त्वं सप्तद्वानवतिः १७
व्वाजश्चेत्यत्र वाजस्य नु देवस्य त्वा यास्ते या व उद्दबुद्ध्यस्व येन वहसि
व्विनत्वंय्यविष्ठेत्यष्टमिलिता एकोनसप्ततिः १८
स्वाद्वीन्त्वेत्यत्र वायोः पूतः कुविदङ्गेति द्वे त्रिणवतिः १९
क्षत्रस्य योनिरित्यत्र समुद्रे ते उतापः पुत्रमिव पितरौनिषसाद यदि जाग्रद्य-
दापो यदि दिवेति यद्ग्रामेसुमित्रियानोयत्सुरामं नवैकाशीतिः २०
इमम्मे इत्यत्र तत्त्वा शन्नो वाजेवाजेऽवत होतायक्षदिन्द्रमृषभस्य सरस्व-
तीम्मेषस्येति प्रविष्टाः सप्तपञ्चाशत् २१
तेजोऽसीत्यत्र तत्सवितुर्विश्वो देवस्य पृथिव्यै स्वाहामधवे स्वाहा वाजाय
स्वाहासवे स्वाहेति प्रविष्टा एकविंशतिः २२
हिरण्यगर्भ इत्यत्र कः स्वित्सूर्य एकाकी कास्विद्द्यौरासीत्प्रजापते न स-
प्तपञ्चाशत् २३
शादन्दद्भिरित्यत्र हिरण्यगर्भः सँय्यः प्प्राणतोऽग्नेत्वं चत्वारिंशत् २५
अग्निश्चेत्यत्र वैश्वानरो नः पञ्चविंशत् २६
समास्त्वेत्यत्र उद्वयं चतुश्चत्वारिंशत् २७
होता यक्षदित्यत्र देवा दैव्याहोतारा शुचिमुष्णिहानन्तरं सर्वे लुप्ता अन्तस्त्रि-
पञ्चाशत् १८
देव सवितरित्यत्र तत्सवितुर्विंशत् ३०
अस्याजरास इत्यत्र युक्ष्वा हि अयमिह मूर्द्धानन्दिव ऊदुत्त्यं विश्वेऽद्येन्द्र-
वायू इमे यज्ञो देवानां गाव उपदैव्व्यावद्धर्य्यू अदब्धेभिः सवितः सप्ता-
शीतिः ३३
यज्जाग्रत इत्यत्राकृष्णेन सप्तपञ्चाशत् ३४
अपेत इत्यत्राश्वत्त्थे वः सुमित्रिया न उद्वयमग्नायूँषीत्यष्टादश ३५
ऋचँव्वाचमित्यत्र भूर्ब्भुवः कया नः कस्त्वा स्योनापृथिव्यापोहिष्ठेति त्रि-
र्न्नमस्ते हरसे सुमित्रिया नोऽभीषुणो दृते दृंहमेति त्रयोदश ३६
देवस्य त्वेत्यत्र देवी द्यावापृथिवीन्द्रस्यौजोऽश्वस्यत्वेयत्यग्रे हृदे त्वा युञ्जते
मनः प्रैतु मखस्य शिरस्त्रयोदश ३७
द्वितीयदेवस्य त्वेत्यत्र सुमित्रिया न उद्वयमेधोऽसी एह्यदित्यैरास्नासीन्द्रा-
यत्वा षड्द्वाविंशतिः ३८
ईशाव्वास्यमित्यत्रान्धन्तमोऽन्यदेवासम्भूतिमिलितास्त्रयोऽग्ने नय त्रयोदश ४०
एवं चतुष्षष्ट्युत्तरशतं लोपाः । एकादशोत्तरमष्टादशशतैः सहेति
               माध्यन्दिनीयशिक्षा समाप्ता