Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

न्याय दर्शनम् (Nyāya Darśanam)

न्याय दर्शनम्

प्रथमोऽध्यायः प्रथम आह्निकः
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः १
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः २
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ३
इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ४
अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च ५
प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ६
आप्तोपदेशः शब्दः ७
स द्विविधो दृष्टादृष्टार्थत्वात् ८
आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ९
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् १०
चेष्टेन्द्रियार्थाश्रयः शरीरम् ११
घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः १२
पृथिव्यापस्तेजो वायुराकाशमिति भूतानि १३
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः १४
बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् १५
युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् १६
प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः १७
प्रवर्तनालक्षणा दोषाः १८
पुनरुत्पत्तिः प्रेत्यभावः १९
प्रवृत्तिदोषजनितोऽर्थः फलम् २०
बाधनालक्षणं दुःखम् २१
तदत्यन्तविमोक्षोऽपवर्गः २२
समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः २३
यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् २४
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः २५
तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः २६
स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् २७
सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः २८
समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः २९
यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ३०
अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ३१
प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ३२
साध्यनिर्देशः प्रतिज्ञा ३३
उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ३४
तथा वैधर्म्यात् ३५
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ३६
तद्विपर्ययाद्वा विपरीतम् ३७
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ३८
हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ३९
अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ४०
विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ४१
इति प्रथम आह्निकः

प्रथमोऽध्यायः द्वितीय आह्निकः
प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः १
यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः २
स प्रतिपक्षस्थापनाहीनो वितण्डा ३
सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ४
अनैकान्तिकः सव्यभिचारः ५
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ६
यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ७
साध्याविशिष्टः साध्यत्वात्साध्यसमः ८
कालात्ययापदिष्टः कालातीतः ९
वचनविघातोऽर्थविकल्पोपपत्त्या छलम् १०
तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च ११
अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् १२
सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलम् १३
धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् १४
वाक्छलमेवोपचारच्छलं तदविशेषात् १५
न तदर्थान्तरभावात् १६
अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः १७
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः १८
विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् १९
तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् २०
इति द्वितीय आह्निकः इति प्रथमोऽध्यायः

द्वितीयोऽध्यायः प्रथम आह्निकः
समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः १
विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च २
विप्रतिपत्तौ च सम्प्रतिपत्तेः ३
अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ४
तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः ५
यथोक्ताध्यवसायादेव तद्विशेषापेक्षात्संशयेनासंशयो नात्यन्तसंशयो वा ६
यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ७
प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ८
पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसंनिकर्षात्प्रत्यक्षोत्पत्तिः ९
पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः १०
युगपत्सिद्धौ प्रत्यर्थनियतत्वात्क्रमवृत्तित्वाभावो बुद्धीनाम् ११
त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः १२
सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः १३
तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः १४
त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत्सिद्धेः १५
प्रमेया च तुलाप्रामाण्यवत् १६
प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः १७
तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत्प्रमेयसिद्धिः १८
न प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः १९
क्वचिन्निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्वचिदनेकान्तः २०
प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् २१
नात्ममनसोः संनिकर्षाभावे प्रत्यक्षोत्पत्तिः २२
दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः २३
ज्ञानलिङ्गत्वादात्मनो नानवरोधः २४
तदयौगपद्यलिङ्गत्वाच्च न मनसः २५
प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः संनिकर्षस्य स्वशब्देन वचनम् २६
सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः संनिकर्षनिमित्तत्वात् २७
तैश्चापदेशो ज्ञानविशेषाणाम् २८
व्याहतत्वादहेतुः २९
नार्थविशेषप्राबल्यात् ३०
प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः ३१
न प्रत्यक्षेण यावत्तावदप्युपलम्भात् ३२
साध्यत्वादवयविनि संदेहः ३३
सर्वाग्रहणमवयव्यसिद्धेः ३४
धारणाकर्षणोपपत्तेश्च ३५
सेनावनवद्ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् ३६
रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ३७
नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात् ३८
वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ३९
तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् ४०
नातीतानागतयोरितरेतरापेक्षासिद्धिः ४१
वर्तमानाभावे सर्वाग्रहणम्प्रत्यक्षानुपपत्तेः ४२
कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् ४३
अत्यन्तप्रायैकदेशसाधर्म्यादुपमानासिद्धिः ४४
प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ४५
प्रत्यक्षेणाप्रत्यक्षसिद्धेः ४६
नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः ४७
तथेत्युपसंहारादुपमानसिद्धेर्नाविशेषः ४८
शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् ४९
उपलब्धेरद्विप्रवृत्तित्वात् ५०
सम्बन्धाच्च ५१
आप्तोपदेशसामर्थ्याच्छब्दादर्थसम्प्रत्ययः ५२
पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः ५३
शब्दार्थव्यवस्थानादप्रतिषेधः ५४
न सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य ५५
जातिविशेषे चानियमात् ५६
तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः ५७
न कर्मकर्तृसाधनवैगुण्यात् ५८
अभ्युपेत्य कालभेदे दोषवचनात् ५९
अनुवादोपपत्तेश्च ६०
वाक्यविभागस्य चार्थग्रहणात् ६१
विध्यर्थवादानुवादवचनविनियोगात् ६२
विधिर्विधायकः ६३
स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः ६४
विधिविहितस्यानुवचनमनुवादः ६५
नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः ६६
शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ६७
मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् ६८
इति प्रथम आह्निकः

द्वितीयोऽध्यायः द्वितीय आह्निकः
न चतुष्ट्वमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् १
शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच्चाप्रतिषेधः २
अर्थापत्तिरप्रमाणमनैकान्तिकत्वात् ३
अनर्थापत्तावर्थापत्त्यभिमानात् ४
प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ५
तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ६
नाभावप्रामाण्यं प्रमेयासिद्धेः ७
लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ८
असत्यर्थे नाभाव इति चेन्नान्यलक्षणोपपत्तेः ९
तत्सिद्धेरलक्षितेष्वहेतुः १०
न लक्षणावस्थितापेक्षासिद्धेः ११
प्रागुत्पत्तेरभावोपपत्तेश्च १२
आदिमत्त्वादैन्द्रियकत्वात्कृतकवदुपचाराच्च १३
न घटाभावसामान्यनित्यत्वान्नित्येष्वप्यनित्यवदुपचाराच्च १४
तत्त्वभाक्तयोर्नानात्वस्य विभागादव्यभिचारः १५
संतानानुमानविशेषणात् १६
कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् १७
प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च १८
तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः १९
अनुपलम्भादप्यनुपलब्धिसद्भाववन्नावरणानुपपत्तिरनुपलम्भात् २०
अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः २१
अस्पर्शत्वात् २२
न कर्मानित्यत्वात् २३
नाणुनित्यत्वात् २४
सम्प्रदानात् २५
तदन्तरालानुपलब्धेरहेतुः २६
अध्यापनादप्रतिषेधः २७
उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः २८
अभ्यासात् २९
नान्यत्वेऽप्यभ्यासस्योपचारात् ३०
अन्यदन्यस्मादनन्यत्वादनन्यदित्यन्यताभावः ३१
तदभावे नास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः ३२
विनाशकारणानुपलब्धेः ३३
अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ३४
उपलभ्यमाने चानुपलब्धेरसत्त्वादनपदेशः ३५
पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः ३६
विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ३७
अस्पर्शत्वादप्रतिषेधः ३८
विभक्त्यन्तरोपपत्तेश्च समासे ३९
विकारादेशोपदेशात्संशयः ४०
प्रकृतिविवृद्धौ विकारविवृद्धेः ४१
न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः ४२
द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः ४३
नातुल्यप्रकृतीनां विकारविकल्पात् ४४
द्रव्यविकारवैषम्यवद्वर्णविकारविकल्पः ४५
न विकारधर्मानुपपत्तेः ४६
विकारप्राप्तानामपुनरापत्तेः ४७
सुवर्णादीनां पुनरापत्तेरहेतुः ४८
न तद्विकाराणां सुवर्णभावाव्यतिरेकात् ४९
नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् ५०
नित्यानामतीन्द्रियत्वात्तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः ५१
अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः ५२
विकारधर्मित्वे नित्यत्वाभावात्कालान्तरे विकारोपपत्तेश्चाप्रतिषेधः ५३
प्रकृत्यनियमाद्वर्णविकाराणाम् ५४
अनियमे नियमान्नानियमः ५५
नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः ५६
गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकारः ५७
ते विभक्त्यन्ताः पदम् ५८
व्यक्त्याकृतिजातिसंनिधावुपचारात्संशयः ५९
या शब्दसमूहत्यागपरिग्रहसंख्यावृद्ध्युपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद्व्यक्तिः ६०
न तदनवस्थानात् ६१
सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावेऽपि तदुपचारः ६२
आकृतिस्तदपेक्षत्वात्सत्त्वव्यवस्थानसिद्धेः ६३
व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात्प्रोक्षणादीनां मृद्गवके जातिः ६४
नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः ६५
व्यक्त्याकृतिजातयस्तु पदार्थः ६६
व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ६७
आकृतिर्जातिलिङ्गाख्या ६८
समानप्रसवात्मिका जातिः ६९
इति द्वितीय आह्निकः इति द्वितीयोऽध्यायः

तृतीयोऽध्यायः प्रथम आह्निकः
दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् १
न विषयव्यवस्थानात् २
तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः ३
शरीरदाहे पातकाभावात् ४
तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् ५
न कार्याश्रयकर्तृवधात् ६
सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ७
नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ८
एकविनाशे द्वितीयाविनाशान्नैकत्वम् ९
अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः १०
दृष्टान्तविरोधादप्रतिषेधः ११
इन्द्रियान्तरविकारात् १२
न स्मृतेः स्मर्तव्यविषयत्वात् १३
तदात्मगुणसद्भावादप्रतिषेधः १४
नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् १५
ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् १६
नियमश्च निरनुमानः १७
पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः १८
पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः १९
नोष्णशीतवर्षाकालनिमित्तत्वात्पञ्चात्मकविकाराणाम् २०
प्रेत्याहाराभ्यासकृतात्स्तन्याभिलाषात् २१
अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् २२
नान्यत्र प्रवृत्त्यभावात् २३
वीतरागजन्मादर्शनात् २४
सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः २५
न संकल्पनिमित्तत्वाद्रागादीनाम् २६
पार्थिवं गुणान्तरोपलब्धेः २७
पार्थिवाप्यतैजसं तद्गुणोपलब्धेः २८
निःश्वासोच्छ्वासोपलब्धेश्चातुर्भौतिकम् २९
गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ३०
श्रुतिप्रामाण्याच्च ३१
कृष्णसारे सत्युपलम्भाद्व्यतिरिच्य चोपलम्भात्संशयः ३२
महदणुग्रहणात् ३३
रश्म्यर्थसंनिकर्षविशेषात्तद्ग्रहणम् ३४
तदनुपलब्धेरहेतुः ३५
नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ३६
द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः ३७
अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिः ३८
कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ३९
मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ४०
न रात्रावप्यनुपलब्धेः ४१
वाह्यप्रकाशानुग्रहाद्विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः ४२
अभिव्यक्तौ चाभिभवात् ४३
नक्तञ्चरनयनरश्मिदर्शनाच्च ४४
अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ४५
कुड्यान्तरितानुपलब्धेरप्रतिषेधः ४६
अप्रतिघातात्संनिकर्षोपपत्तिः ४७
आदित्यरश्मेः स्फटिकान्तरेऽपि दाह्येऽविघातात् ४८
नेतरेतरधर्मप्रसङ्गात् ४९
आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धिः ५०
दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः ५१
स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः ५२
त्वगव्यतिरेकात् ५३
न युगपदर्थानुपलब्धेः ५४
विप्रतिषेधाच्च न त्वगेका ५५
इन्द्रियार्थपञ्चत्वात् ५६
न तदर्थबहुत्वात् ५७
गन्धत्वाद्यव्यतिरेकाद्गन्धादीनामप्रतिषेधः ५८
विषयत्वाव्यतिरेकादेकत्वम् ५९
न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ६०
भूतगुणविशेषोपलब्धेस्तादात्म्यम् ६१
गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ६२
अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ६३
न सर्वगुणानुपलब्धेः ६४
एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः ६५
विष्टं ह्यपरम्परेण ६६
न पार्थिवाप्ययोः प्रत्यक्षत्वात् ६७
पूर्वपूर्वगुणोत्कर्षात्तत्तत्प्रधानम् ६८
तद्व्यवस्थानं तु भूयस्त्वात् ६९
सगुणानामिन्द्रियभावात् ७०
तेनैव तस्याग्रहणाच्च ७१
न शब्दगुणोपलब्धेः ७२
तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् ७३
इति प्रथम आह्निकः

तृतीयोऽध्यायः द्वितीय आह्निकः
कर्माकाशसाधर्म्यात्संशयः १
विषयप्रत्यभिज्ञानात् २
साध्यसमत्वादहेतुः ३
न युगपदग्रहणात् ४
अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ५
क्रमवृत्तित्वादयुगपद्ग्रहणम् ६
अप्रत्यभिज्ञानञ्च विषयान्तरव्यासङ्गात् ७
न गत्यभावात् ८
स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ९
स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद्व्यक्तीनामहेतुः १०
नियमहेत्वभावाद्यथादर्शनमभ्यनुज्ञा ११
नोत्पत्तिविनाशकारणोपलब्धेः १२
क्षीरविनाशे कारणानुपलब्धिवद्दध्युत्पत्तिवच्च तदुपपत्तिः १३
लिङ्गतो ग्रहणान्नानुपलब्धिः १४
न पयसः परिणामगुणान्तरप्रादुर्भावात् १५
व्यूहान्तराद्द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् १६
क्वचिद्विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः १७
नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् १८
युगपज्ज्ञेयानुपलब्धेश्च न मनसः १९
तदात्मगुणत्वेऽपि तुल्यम् २०
इन्द्रियैर्मनसः संनिकर्षाभावात्तदनुत्पत्तिः २१
नोत्पत्तिकारणानपदेशात् २२
विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः २३
अनित्यत्वग्रहाद्बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् २४
ज्ञानसमवेतात्मप्रदेशसंनिकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः २५
नान्तःशरीरवृत्तित्वान्मनसः २६
साध्यत्वादहेतुः २७
स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः २८
न तदाशुगतित्वान्मनसः २९
न स्मरणकालानियमात् ३०
आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ३१
व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ३२
प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावादयुगपत्स्मरणम् ३३
ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ३४
तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ३५
परश्वादिष्वारम्भनिवृत्तिदर्शनात् ३६
नियमानियमौ तु तद्विशेषकौ ३७
यथोक्तहेतुत्वात्पारतन्त्र्यादकृताभ्यागमाच्च न मनसः ३८
परिशेषाद्यथोक्तहेतूपपत्तेश्च ३९
स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् ४०
प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ४१
कर्मानवस्थायिग्रहणात् ४२
अव्यक्तग्रहणमनवस्थायित्वाद्विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् ४३
हेतूपादानात्प्रतिषेद्धव्याभ्यनुज्ञा ४४
प्रदीपार्चिःसंतत्यभिव्यक्तग्रहणवत्तद्ग्रहणम् ४५
द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ४६
यावच्छरीरभावित्वाद्रूपादीनाम् ४७
न पाकजगुणान्तरोत्पत्तेः ४८
प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ४९
शरीरव्यापित्वात् ५०
न केशनखादिष्वनुपलब्धेः ५१
त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ५२
शरीरगुणवैधर्म्यात् ५३
न रूपादीनामितरेतरवैधर्म्यात् ५४
ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेधः ५५
ज्ञानायौगपद्यादेकं मनः ५६
न युगपदनेकक्रियोपलब्धेः ५७
अलातचक्रदर्शनवत्तदुपलब्धिराशुसंचारात् ५८
यथोक्तहेतुत्वाच्चाणु ५९
पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ६०
भूतेभ्यो मूर्त्युपादानवत्तदुपादानम् ६१
न साध्यसमत्वात् ६२
नोत्पत्तिनिमित्तत्वान्मातापित्रोः ६३
तथाहारस्य ६४
प्राप्तौ चानियमात् ६५
शरीरोत्पत्तिनिमित्तवत्संयोगोत्पत्तिनिमित्तं कर्म ६६
एतेनानियमः प्रत्युक्तः ६७
तददृष्टकारितमिति चेत्पुनस्तत्प्रसङ्गोऽपवर्गे ६८
मनःकर्मनिमित्तत्वाच्च संयोगानुच्छेदः ६९
नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ७०
अणुश्यामतानित्यत्ववदेतत्स्यात् ७१
नाकृताभ्यागमप्रसङ्गात् ७२
इति द्वितीय आह्निकः इति तृतीयोऽध्यायः

चतुर्थोऽध्यायः प्रथम आह्निकः
प्रवृत्तिर्यथोक्ता १
तथा दोषाः २
तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ३
नैकप्रत्यनीकभावात् ४
व्यभिचारादहेतुः ५
तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः ६
निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः ७
न दोषलक्षणावरोधान्मोहस्य ८
निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ९
आत्मनित्यत्वे प्रेत्यभावसिद्धिः १०
व्यक्ताद्व्यक्तानां प्रत्यक्षप्रामाण्यात् ११
न घटाद्घटानिष्पत्तेः १२
व्यक्ताद्घटनिष्पत्तेरप्रतिषेधः १३
अभावाद्भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् १४
व्याघातादप्रयोगः १५
नातीतानागतयोः कारकशब्दप्रयोगात् १६
न विनष्टेभ्योऽनिष्पत्तेः १७
क्रमनिर्देशादप्रतिषेधः १८
ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् १९
न पुरुषकर्माभावे फलानिष्पत्तेः २०
तत्कारितत्वादहेतुः २१
अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् २२
अनिमित्तनिमित्तत्वान्नानिमित्ततः २३
निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः २४
सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् २५
नानित्यतानित्यत्वात् २६
तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् २७
नित्यस्याप्रत्याख्यानं यथोपलब्धिव्यवस्थानात् २८
सर्वं नित्यम्पञ्चभूतनित्यत्वात् २९
नोत्पत्तिविनाशकारणोपलब्धेः ३०
तल्लक्षणावरोधादप्रतिषेधः ३१
नोत्पत्तितत्कारणोपलब्धेः ३२
न व्यवस्थानुपपत्तेः ३३
सर्वं पृथग्भावलक्षणपृथक्त्वात् ३४
नानेकलक्षणैरेकभावनिष्पत्तेः ३५
लक्षणव्यवस्थानादेवाप्रतिषेधः ३६
सर्वमभावो भावेष्वितरेतराभावसिद्धेः ३७
न स्वभावसिद्धेर्भावानाम् ३८
न स्वभावसिद्धिरापेक्षिकत्वात् ३९
व्याहतत्वादयुक्तम् ४०
संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ४१
न कारणावयवभावात् ४२
निरवयवत्वादहेतुः ४३
सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ४४
न सद्यः कालान्तरोपभोग्यत्वात् ४५
कालान्तरेणानिष्पत्तिर्हेतुविनाशात् ४६
प्राङ्निष्पत्तेर्वृक्षफलवत्तत्स्यात् ४७
नासन्न सन्न सदसत्सदसतोर्वैधर्म्यात् ४८
उत्पादव्ययदर्शनात् ४९
बुद्धिसिद्धं तु तदसत् ५०
आश्रयव्यतिरेकाद्वृक्षफलोत्पत्तिवदित्यहेतुः ५१
प्रीतेरात्माश्रयत्वादप्रतिषेधः ५२

पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् ५३
तत्सम्बन्धात्फलनिष्पत्तेस्तेषु फलवदुपचारः ५४
विविधबाधनायोगाद्दुःखमेव जन्मोत्पत्तिः ५५
न सुखस्याप्यान्तरालनिष्पत्तेः ५६
बाधनानिर्वृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः ५७
दुःखविकल्पे सुखाभिमानाच्च ५८
ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ५९
प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ६०
समारोपणादात्मन्यप्रतिषेधः ६१
पात्रचयान्तानुपपत्तेश्च फलाभावः ६२
सुषुप्तस्य स्वप्नादर्शने क्लेशाभाववदपवर्गः ६३
न प्रवृत्तिः प्रतिसंधानाय हीनक्लेशस्य ६४
न क्लेशसंततेः स्वाभाविकत्वात् ६५
प्रागुत्पत्तेरभावानित्यत्ववत्स्वाभाविकेऽप्यनित्यत्वम् ६६
अणुश्यामतानित्यत्ववद्वा ६७
न संकल्पनिमित्तत्वाच्च रागादीनाम् ६८
इति प्रथम आह्निकः

चतुर्थोऽध्यायः द्वितीय आह्निकः
दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः १
दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः २
तन्निमित्तं त्ववयव्यभिमानः ३
विद्याविद्याद्वैविध्यात्संशयः ४
तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ५
वृत्त्यनुपपत्तेरपि तर्हि न संशयः ६
कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ७
तेषु चावृत्तेरवयव्यभावः ८
पृथक्चावयवेभ्योऽवृत्तेः ९
न चावयव्यवयवाः १०
एकस्मिन्भेदाभावाद्भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ११
अवयवान्तराभावेऽप्यवृत्तेरहेतुः १२
केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः १३
स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः १४
अवयवावयविप्रसङ्गश्चैवमाप्रलयात् १५
न प्रलयोऽणुसद्भावात् १६
परं वा त्रुटेः १७
आकाशव्यतिभेदात्तदनुपपत्तिः १८
आकाशासर्वगतत्वं वा १९
अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः २०
शब्दसंयोगविभवाच्च सर्वगतम् २१
अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः २२
मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः २३
संयोगोपपत्तेश्च २४
अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः २५
बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत्तदनुपलब्धिः २६
व्याहतत्वादहेतुः २७
तदाश्रयत्वादपृथग्ग्रहणम् २८
प्रमाणतश्चार्थप्रतिपत्तेः २९
प्रमाणानुपपत्त्युपपत्तिभ्याम् ३०
स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ३१
मायागन्धर्वनगरमृगतृष्णिकावद्वा ३२
हेत्वभावादसिद्धिः ३३
स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः ३४
मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे ३५
बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ३६
तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः ३७
समाधिविशेषाभ्यासात् ३८
नार्थविशेषप्राबल्यात् ३९
क्षुदादिभिः प्रवर्तनाच्च ४०
पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ४१
अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ४२
अपवर्गेऽप्येवं प्रसङ्गः ४३
न निष्पन्नावश्यम्भावित्वात् ४४
तदभावश्चापवर्गे ४५
तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ४६
ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ४६
तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयुभिरभ्युपेयात् ४७
प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ४८
तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे वीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् ४९
ताभ्यां विगृह्य कथनम् ५०
इति द्वितीय आह्निकः इति चतुर्थोऽध्यायः

पञ्चमोऽध्यायः प्रथम आह्निकः
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः १
साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ २
गोत्वाद्गोसिद्धिवत्तत्सिद्धिः ३
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ४
किंचित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ५
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ६
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधकत्वाच्च प्राप्त्यप्राप्तिसमौ ७
घटादिनिष्पत्तिदर्शनात्पीडने चाव्यभिचारादप्रतिषेधः ८
दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ प्रदीपोपादानप्रसङ्गविनिवृत्तिवत्तद्विनिवृत्तिः ९
प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः १०
प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ११
तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः १२
सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः १३
साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः १४
उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः १५
प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः १६
त्रैकाल्यानुपपत्तेर्हेतोरहेतुसमः १७
न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः १८
प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः १९
अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः २०
अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच्चार्थापत्तेः २१
एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेषसमः २२
क्वचित्तद्धर्मोपपत्तेः क्वचिच्चानुपपत्तेः प्रतिषेधाभावः २३
उभयकारणोपपत्तेरुपपत्तिसमः २४
उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः २५
निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः २६
कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः २७
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः २८
अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः २९
ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ३०
साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ३१
साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसामर्थ्यात् ३२
दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावान्नाविशेषः ३३
नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ३४
प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ३५
प्रयत्नकार्यानेकत्वात्कार्यसमः ३६
कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ३७
प्रतिषेधेऽपि समानो दोषः ३८
सर्वत्रैवम् ३९
प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः ४०
प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात्समानो दोषः ४१
इति प्रथम आह्निकः
पञ्चमोऽध्यायः द्वितीय आह्निकः
प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि १
प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः २
प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् ३
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ४
पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ५
अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ६
प्रकृतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम् ७
वर्णक्रमनिर्देशवन्निरर्थकम् ८
परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ९
पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् १०
अवयवविपर्यासवचनमप्राप्तकालम् ११
हीनमन्यतमेनाप्यवयवेन न्यूनम् १२
हेतूदाहरणाधिकमधिकम् १३
शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् १४
अर्थादापन्नस्य स्वशब्देन पुनर्वचनं पुनरुक्तम् १५
विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् १६
अविज्ञातं चाज्ञानम् १७
उत्तरस्याप्रतिपत्तिरप्रतिभा १८
कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः १९
स्वपक्षे दोषाभ्युपगमात्परपक्षे दोषप्रसङ्गो मतानुज्ञा २०
निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् २१
अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः २२
सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तः २३
हेत्वाभासाश्च यथोक्ताः २४
इति द्वितीय आह्निकः
इति पञ्चमोऽध्यायः

              इति न्यायदर्शनम्